________________
ॐ
ॐAREER
ते उ पडिसेवणाए अणुलोमा होति विअडणाए । पडिसेवविअडणाए इत्थं चउरो भवे भंगा ॥३२१॥ | ते तु दोषाः 'प्रतिसेवनया' आसेवनारूपयाऽनुलोमा भवन्ति-अनुकूला भवन्ति, 'विकटनया' आलोचनया च, प्रति| सेवनायां विकटनायां च पदद्वये चत्वारो भङ्गा भवन्ति, तद्यथा-प्रतिसेवनयाऽनुलोमा विकटनया च, तथा प्रतिसेवनया न विकटनायां तथा न प्रतिसेवनया विकटनायां तथा न प्रतिसेवनया न विकटनयेति गाथार्थः ॥ २१॥ ते चैव तत्थ नवरं पायच्छित्तंति आह समयण्णू। जम्हा सइ सुहजोगो कम्मक्खयकारणं भणिओ॥३२२॥
ते एव 'नवरं' केवलं सामुदानिका अतिचाराश्चिन्त्यमानाः सन्तः 'तत्र' कायिकादीर्घ (यो) पथिकायां प्रायश्चित्तमित्येवमाहुः 'समयज्ञाः' सिद्धान्तविदः, किमिति?, यस्मात् सदा-सर्वकालमेव 'शुभयोगः' कुशल व्यापारः कर्मक्षयकारणं भणितः तीर्थकरगणधरैरिति गाथार्थः ॥ २२ ॥ ततः किमित्याहसुहजोगो अ अयंजं चरणाराहणनिमित्तमणुअंपि।मा होज किंचि खलिअंपेहेइ तओवउत्तोऽवि ॥३२३॥
शुभयोगश्च 'अयं' सामुदानिकातिचारचिन्तनरूपः, कथमित्याह-'यद्' यस्मात् 'चरणाराधननिमित्तम्' अस्ख|लितचारित्रपालनार्थम् 'अण्वपि' सूक्ष्ममपि 'मा' मा भूत् किञ्चित् स्खलितं, 'प्रेक्षते' पर्यालोचयति तत उपयुक्तोऽपि |भिक्षाग्रहणकाल इति गाथार्थः॥ २३ ॥ पक्षान्तरमाहकायनिरोहे वा से पायच्छित्तमिह जं अणुस्सरणं। तं विहिआणुटाणं कम्मक्खयकारणं परमं ॥ ३२४ ॥
Jain Education inte de
For Private & Personal Use Only
S
ww.jainelibrary.org.