SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ श्रीपञ्चव. प्रतिदिन - क्रिया २ ॥ ५३ ॥ Jain Education Inter 'आकर्षति' पठति 'सूत्र' गणधराभिहितं 'अतिचारशोधनार्थं संयमस्खलितविशुद्धिनिमित्तं कायनिरोधमूर्ध्वस्थानादिना प्रकारेण 'दृढम्' अत्यर्थ करोति गाथार्थः ॥ १७ ॥ तत्रैव विधिमाह चउरंगुलमप्पत्तं जाणूहिट्ठा छिवोवरिं नाभिं । उभओ कोप्परधरिअं करिज्ज (त्थ) पट्टं च पडलं वा ॥२१८॥ 'चरं गुलमप्पत्त'न्ति चतुर्भिरङ्गलैरप्राप्तं 'जाणुहि 'त्ति अधोजानुनी तथा 'अछिवोवरिं णाभिन्ति अस्पृशन्नुपरिनाभि, चतुर्भिरेवाङ्गुलैरिति, एवमुभयोः पार्श्वयोरिति गम्यते, 'कोप्परधरियं'ति कूपराभ्यां धृतं 'करिज्ज (त्थ) पठ्ठे च पडलं वन्ति इत्थम् - अनेन विन्यासेन कुर्यात् 'पट्टं वा' चोलपट्टकं 'पटलानि वा' पात्रनिर्योगान्तर्गतानीति गाथार्थः ॥ १८ ॥ पुट्ठे ठाणे ठाउं चउरंगुलंतरं काउं । मुहपोत्ति उज्जुहत्थे वामंमि अ पायपुंछणयं ॥ ३१९ ॥ पूर्वोद्दिष्टे स्थाने, योग्यदेश इत्यर्थः, 'स्थातु 'मिति स्थित्वा चत्वार्यङ्गुलानि अन्तरं कृत्वा, अग्रपादयोरिति गम्यते, मुखवस्त्रिका 'ऋजुहस्त' इति दक्षिणहस्तेऽस्य भवति, वामे च हस्ते 'पादप्रमार्जनं' रजोहरणमिति गाथार्थः ॥ १९ ॥ काउस्सग्गंमि ठिओ चिंते समुदाणिए अईयारे । जा निग्गमप्पवेसो तत्थ उ दोसे मणे कुज्जा ॥ ३२० ॥ स चैवं कायोत्सर्गे स्थितः सन् चिन्तयेत् सामुदानिकानतिचारान्, समुदानं - भिक्षामीलनं तत्र भवान् पुरः कर्म्मादीन्, तदवधिमाहुः - यावन्निर्गमप्रवेशौ, 'जा य पढमभिक्खा लद्धा जा य अवसाणिल्ला' तत्र तु दोषान् - पुरः कर्म्मादीन् मनसि | कुर्यात्, यतो निवेदनीयास्ते गुरोरिति गाथार्थः ॥ २० ॥ For Private & Personal Use Only कायोत्सर्गः ॥ ५३ ॥ www.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy