________________
Jain Education In
उवरिं हिट्ठा य पमजिऊण लट्ठि ठवंति सट्टाणे । पहं उवहिस्सुवरिं भायण वत्थाणि भाणेसुं ॥ ३१४ ॥
'उपरी'त्यूर्ध्वमधश्च प्रमृज्य प्रत्युपेक्षणापूर्वकं यष्टिं स्थापयन्ति 'स्वस्थाने' दण्डकस्थान एव, नान्यत्र, 'पट्ट' मिति चोल - ! पट्टकमुपधेरुपरि 'उवही जो हिंडाविओ तं सठाणे ठविंति तस्सुवरिं चोलपट्टयं,' 'भाजनवस्त्राणि' पात्रबन्धादीनि 'भाजने - ष्वेव' पात्रेष्वेव, वृद्धास्तु व्याचक्षते - 'रयत्ताणाणि जत्थ भायणाईणि ठविज्जंति तत्थेव धरेंति'त्ति गाथार्थः ॥ १४ ॥ जइ पुण पासवर्ण से हविज तो उग्गहं सपच्छागं । दाउं अन्नस्स सचोलपट्टगो काइअं निसिरे ॥३१५॥
यदि पुनः 'प्रश्रवणं' कायिकारूपं 'से' तस्य साधोर्भवेत् ततोऽवग्रहमिति - प्रतिग्रहकं सपच्छागमिति - सह पटलैर्दत्त्वा - समयन्यस्मै साधवे सचोलपट्टक एव सन् कायिकां 'णिसिरि'त्ति निसृजेद् - व्युत्सृजेदिति गाथार्थः ॥ १५ ॥ वोसिरिअ काइअं वा आगंतूणय तओ असंभंतो । दारं । पच्छा य जोगदेसं पमज्जिउं सुत्तविहिणा उ ॥३१६॥
'व्युत्सृज्य' परित्यज्य कायिकां च आगत्य च 'ततः' तदनन्तरं 'असम्भ्रान्तो' विशुद्धः सन् योग्यदेशमिति गम्यते । व्याख्यातं दण्डोपधिमोक्षद्वारं, अधुना शुद्धिद्वारं व्याचिख्यासयाऽऽह - ' पश्चाच्च गमनानन्तरं 'योग्यदेशं' विशिष्टस्थण्डिलरूपं प्रमृज्य रजोहरणेन, कथमित्याह - सूत्रविधिना - चक्षुः प्रत्युपेक्षणपुरस्सरेणेति गाथार्थः ॥ १६ ॥
इरिअं पडिकमेr इच्छामिच्चाई कढई सुत्तं । अइआरसोहणट्ठा कायनिरोहं दढं कुणइ ॥ ३१७ ॥ 'ईर्या' मिति ईर्यापथकां प्रतिक्रामति, कथमित्याह - इच्छामीत्यादि 'इच्छामि पडिकमिडं इरियावहियाए' त्येवमादि
For Private & Personal Use Only
www.jainelibrary.org