________________
Jain Education In
चाह- अप्राप्ते सति काले- भिक्षाकालेऽटतः प्रथम इत्यादौ, द्वितीयो मध्य इति भिक्षाकाल एवाटतः, तृतीयोऽन्त इति - भिक्षाकालावसान इति गाथार्थः ॥ कालत्रयेऽपि गुणदोषानाह -
दिगपडिच्छगाणं हविज्ज सुहुमंपि मा हु अचिअत्तं । इइ अप्पत्त अईए पवत्तणं मा इतो मज्झे ॥ २०२॥
‘ददत्प्रतीच्छकयोः' गृहिभिक्षाचरयोः मा भूत्सूक्ष्ममपि 'अचियत्तम्' अप्रीतिलक्षणम् 'इति' एतस्माद्धेतोरप्राप्ते, अतीते च भिक्षाकालेऽटनं न श्रेय इति गम्यते, 'प्रवर्त्तनं 'च' अधिकरणरूपं मा भूत्, ततो 'मध्ये' भिक्षाकालमध्येऽटनं श्रेय इति गाथार्थः ॥ २ ॥ भावाभिग्रहमाह
1
| उक्खित्तमाइचरगा भावजुआ खलु अभिग्गहो हुति । गाअंतो अ रुअंतो जं देइ निसण्णमाई वा ॥ ३०३ ॥ 'उत्क्षिप्तादिचरा' इति उत्क्षिप्ते भाजनात्पिण्डे चरति गच्छति यः स उत्क्षिप्तचरः, एवं निक्षिप्ते भाजनादाविति भावनीयं, त एते भावयुक्ताः खल्बभिग्रहा इत्यर्थः, गायन् रुदन् वा यद्ददाति निषण्णादिर्वेति तद्ग्राहिण इति गाथार्थः ॥ ३ ॥ तथाओसक्कण अभिसक्कण परंमुहोऽलंकिओ व इयरोऽवि । भावऽण्णयरेण जुओ अह भावाभिग्गहो नाम ॥ ३०४
सः अपसरन् अभिसरन् पराङ्मुखोऽलङ्कृतः कटकादिना 'इतरोऽपि' अनलङ्कृतो वाऽपि भावेनान्यतरेण ' युक्तः' समेतो यावान् कश्चिद् 'अथ' अयं भावाभिग्रहो नामेति गाथार्थः ॥ ४ ॥ अभिग्रहविषयोपदर्शनायाह
पुरिसे पडुच्च एए अभिग्गहा नवरि एत्थ विपणेआ । सत्ता विचित्तचित्ता केई सुज्झति एमेव ॥ ३०५ ॥
For Private & Personal Use Only
45464
www.jainelibrary.org