________________
जस्स य जोगोत्ति जइ न भणंति न कप्पई तओ अन्नं। जोग्गंपि वत्थमाई उवग्गहकरंपि गच्छस्स ॥२९५॥ __यस्य च-वस्त्रादेः योगः-प्रवचनोक्तेन विधिना सम्बन्धः प्राप्तलक्षण इति-एवं यदि न भणन्ति, ततः किमित्याहन कल्पते ततोऽन्यद्-वस्त्वन्तरं वस्त्रादि उपग्रहकरमपि-उपकारकमपि 'गच्छे' साध्वादिसमुदायरूप इति गाथार्थः ॥९५॥2 | किमेतदेवमित्याहसाहूण जओ कप्पो मोत्तूणं आणपाणमाईणं । कप्पइ न किंचि काउं घित्तुं वा गुरुअपुच्छाए ॥२९६॥ । साधूनां यतः 'कल्पो' मर्यादेयं, यदुत-मुक्त्वा 'प्राणापानादि' उच्छासनिःश्वासादि, आदिशब्दात् क्षुतादिपरिग्रहः, कल्पते न किञ्चित्कर्तुं ग्रहीतुं वा, किं सामान्येन ?, नेत्याह-गुर्वनापृच्छया' गुरोरनादेशेनेति गाथार्थः ॥९६ ॥ हिंडंति तओ पच्छा अमुच्छिया एसणाएँ उवउत्ता। दवादभिग्गहजुआ मोक्खट्टा सव्वभावेणं ॥२९७॥ | 'हिण्डति' अटन्ति ततः पश्चाद् , विधिनिर्गमनानन्तरमित्यर्थः 'अमूञ्छिता' आहारादौ मूर्छामकुर्वन्तः, 'एषणायां' ग्रहणविषयायाम् 'उपयुक्ताः' तत्पराः 'द्रव्याद्यभिग्रहयुता' वक्ष्यमाणद्रव्याद्यभिग्रहोपेताः मोक्षार्थ, तदर्थ विहितानुष्ठानत्वाद्भिक्षाटनस्य, 'सर्वभावेन' सर्वभावाभिसन्धिना, तद्वैयावृत्त्यादेरपि मोक्षार्थत्वादिति गाथार्थः ॥९७ ॥ अभिग्रहानाहलेवडमलेवर्ड वा अमुगं दवं व अज्ज घिच्छामि । अमुगेण व दवेणं अह दवाभिग्गहो चेव ॥ २९८ ॥ ___ 'लेपवत्' जगायदि तन्मिश्रं वा 'अलेपवद्वा' तद्विपरीतम् 'अमुकं द्रव्यं वा' मण्डकादि अद्य ग्रहीष्यामि, अमुकेन
www
Jan Education
Delibrary.org
For Private & Personal Use Only
a
l