________________
Jain Education Interna
दृश्यते हि वसन्तवायौ समष्टिसापेक्षी हितावह इति व्यवहारो व्यष्टिसापेक्षश्च व्यक्तिविशेषे हितावहविरहव्यवहारोऽपि । समष्टिजीवनतारतम्ये हि बालविवाहाथै हि कसर्वानुभवसिद्धसामग्र्या सिध्यति नातिप्रयोजना महाकाले धर्मविशेषकल्पनेति तु बालोल्लाप एव । जीवनक्षणतारतम्यस्य संस्थानतारतम्यस्य सामर्थ्यतारतम्यस्य च नृपशुस्थावरादिनिष्टस्य तत्र तत्र काले विशिष्टस्यैवोपलब्धतया युक्तायाः | विशिष्टकालकल्पनायास्सर्वथा सार्थकत्वात् । व्यष्टिजीवन कालानुकूलतारतम्यं प्रति बालविवाहादे:- बालब्रह्मचर्यभङ्गादेः कारणत्वेपि तस्य | विशिष्टकालकल्पनाया अबाधकत्वात् । क्षणादिव्यवहारः काले कल्पित इति द्रव्यक्षेत्रकालादेरपि द्रव्यक्षेत्रकालादिसापेक्षमेव निरूपणमिति | चान्यत् प्रसङ्गाप्रसक्तं च । एवं सिध्यति विशिष्टस्य कालस्य भावोत्कर्षापकर्षप्रयोजकत्वे कालविशेषे चतुर्विधसंघे तदङ्गभूतस्य कस्यचिदेकस्यैव | साधोरेकस्यैव च कस्यचिच्छ्रावकस्य तथाविधायाः कस्याश्चिदेकस्या एव साध्या एकस्या एव च कस्याश्चिच्छ्राविकायाश्चास्तित्वमवशिष्टं स्थास्यतीत्यादय आगमा अपि सुसंगतास्सन्तो भवन्ति हृदयङ्गमास्तर्ककर्कशस्वान्तानामपि ।
जैनागमे हि वैदिकाद्यागम इवासन् नानाविधास्तत्तद्विषयपरिपोषक स्तन्त्राद्यागमास्त त्तत्पूर्वान्तर्गता अद्यावधि गीयमानकीर्तयस्तत्प्रवर्तकाश्च ते |त आचार्यवराः । अद्यापि च श्रुतिपथमायान्ति श्रीभद्रबाहु - वज्रस्वाम्यार्यरक्षितार्यखपुटपादलिप्त हरिभद्रसूरिप्रभृतिप्राचीनप्राचीनतरगण्यमान्या गमस्तम्भीभूत कल्पकीर्ति विद्वत्सम्मताः सिद्धप्राभृतयोनिप्राभृतविद्याप्राभृतादयो निबन्धाः । प्राभृतशब्दार्थस्तु प्र-प्रकर्षेण आ - समन्तात् | म्रियते प्राण्यते चित्तमनेनेति पूर्वसुरिसमुदायसम्मतः उपासकोत्साहवर्धनद्वारा शासनप्रभावप्रचारकस्तत्तत्सूरिसमुदाय सत्कृतोऽनादिकालप्रच|लित चतुर्दश पूर्वागमसाररूप आगमविशेषः । प्राभृतागम इतियावत् । एवं निमित्तविद्याशिल्पविद्याचिकित्साविद्याप्रभृतयो नानाविधा विद्यास्तत्प्र| तिपादका आगमा आगमविदश्च दिव्यदृष्टय आसन् । काश्मीरकेरलगौडादिभेदेन प्रसिद्धानां महासरस्वती -महाकाली महालक्ष्मीप्रभृतिमातॄणां
For Private & Personal Use Only
ww.jainelibrary.org