SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ नि. क. 1 Jain Education Intern *%* श्री विघ्नौघसंछेदिने नमः । भूमिका. -5000 के के न कालमाहात्म्यविदो विद्वांस इति विदन्ति यत्कालोऽयमुपचयापचययोर्भावानां विधायकतया कथ्यते सुषमसुषमादिरूपः कृतादिरूपो वा । तत्रायं प्रतिविचारो यत् कालस्य तद्विशेषस्य वा वस्तुजातसाधारणकारणत्वेन संगतस्य संपर्कादाविर्भवति भावानामुपचयोऽपचयो वोत भावानामुपचयापचयाभ्यामारोपितं भवति काले सुषमसुषमादिवैशिष्ट्यम् । अर्थात् कालः स्वभावादेव तथाविधतथा| विधधर्मपराधीनो बलादिव भावानामुपचयापचययोः प्रयोजको भवत्युत भावा एवावश्यंभावितादृशतादृशोपचयापचयतत्कारणभूतधर्मविशेषपराधीनाः कालस्य तथाविधतथाविधाभिलापे प्रयोजका भवन्तीति ( एवं क्षेत्रस्यापि प्रयोजकतोह्या) द्रव्यक्षेत्रकालभावादिपदार्थान्तरापेक्षाबलेन स्याद्वादिभिर्विद्वद्भिस्समर्थितोऽपि तादृशस्तादृशो भावप्रकर्षापकर्षान्यतररूपः पर्यायापरपर्यायो भावविकारो नोपकरोति कालतारतम्यस्येत्थंभावेन निरूपणे । एवं प्राप्ते विसंवादे केचनोच्छृङ्खला नवीनाः कालस्तु परममहत्त्वादेकत्वादाकाशादिवन्निर्लेपस्तत्र तत्र प्रतीयमानो धर्मविशेषः कल्यादिरूपो दुःषमदुःषमादिरूपो वा व्यवहारसाधारणो भाक्तः । भावानामुपचयबाहुल्ये भवति व्यवहारोऽनुकूलोऽयं | काल इति । तथैव भावानामपचयबाहुल्ये प्रतिकूलोऽयं काल इति भवति व्यवहारः ( एवं दिगादिगतोऽप्यनुकूलत्वाननुकूलत्वव्यवहारो ( भाक्तः ) । अस्मिन्नेव च समये संगता भवन्ति लोकोक्तयो राजा कालस्य कारणमित्यादयः । निरुपाधिस्तु कालः कल्पायुषापि न शक्यो For Private & Personal Use Only www.jainelibrary.org
SR No.600004
Book TitleNirvankalika
Original Sutra AuthorPadliptsuri
AuthorMohanlal Bhagwandas Jhaveri
PublisherNathmalji Kaniyalalji Mumbai
Publication Year1926
Total Pages138
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy