________________
नि. क. १
Jain Education Internat
अर्हम् विद्याधरवंशभूषणमणिश्रीमत्पादलिप्ताचार्यकृता निर्वाणकलिका |
ॐ नमो वीतरागाय ||
वर्धमानं जिनं नत्वा समुद्धृत्य जिनागमात् । नित्यकर्म तथा दीक्षां प्रतिष्ठां च प्रचक्ष्महे ॥ १ ॥ प्रतिष्ठापद्धतिश्चैषा श्रीमत्पलिप्तसूरिणा । भव्यानामुपकाराय स्पष्टार्थाऽऽख्यायतेऽधुना ॥ २ ॥ ॥ अथ नित्यकर्मविधिः ॥
तत्रोपासको नमस्कारपूर्वमुत्थाय कृतावश्यको विशुद्धमृदा गुदलिङ्गादीन्प्रक्षाल्य गन्धलेपापनोदेन भावशुद्ध्या शौचं विधाय सकृत् मृदा पादौ हस्तौ च प्रक्षाल्य आचम्य जम्ब्वाम्रादिकाष्ठेन द्वादशाङ्गुलेन कनि१ प्रवक्ष्महे इति ग. पाठः । २ पालित इति क. पाठः, पालिप्त इति ख. पाठः, पालिप्त इति ग. पाठः.
For Private & Personal Use Only
www.jainelibrary.org