________________
लासनां चतुर्भुजां वरदमुसल युतदक्षिणकरां, अभयकुलिशयुतवामहस्तां चेति ॥१०॥ सर्वास्त्रमहाज्वाला धवलवर्णा वराहवाहनां असंख्यपहरणयुतहस्तां चेति ॥ ११॥ तथा मानवीं श्यामवर्णा कमलासनां चतुर्भुजां है वरदपाशालङ्कतदक्षिणकरां अक्षसूत्रपिटपालतवामहस्तां चेति ॥ १२॥ तथा वैरोट्यां श्यामवर्णा अजगरवाहनां चतुर्भुजां खगोरगालतदक्षिणकरां खेटकाहियुतवामकरां चेति ॥१३॥ तथा अच्छुप्तां तडिवां तुरगवाहनां चतुर्भुजां खङ्गवाणयुतदक्षिणकरां खेटकाहियुतवामकरां चेति ॥ १४॥ तथा मानसीं धवलवणी | हंसवाहनां चतुर्भुजां वरदवज्राल कृतदक्षिणकरां अक्षवलयाशनियुक्तवामकरां चेति ॥१५॥ तथा महामानसी धवलवर्णा सिंहवाहनां चतुर्भुजां वरदासियुक्तदक्षिणकरां कुण्डिकाफलकयुतवामहस्तां चेति ॥ १६ ॥ इतिहा विद्यादेवीषोडशकम् ॥
॥ अथ लोकपालाः॥ . तत्र शक्रं पीतवर्ण ऐरावतवाहनं वज्रपाणि चेति ॥१॥तथा अग्निं अग्निवर्ण मेषवाहनं सप्तशिखं शक्तिपाणि चेति ॥२॥ तथा यमराज कृष्णवर्ण महिषवाहनं दण्डपाणि चेति ॥३॥ तथा नैऋति हरितवर्ण शववाहनं खगपाणि चेति ॥४॥ तथा वरुणं धवलवर्ण मकरवाहनं पाशपाणि चेति ॥५॥तथा वायुं सितवर्ण है मृगवाहनं वज्रा( ध्वजा )लङ्कृतपाणिं चेति ॥ ६॥ तथा कुबेरमनेकवर्ण निधिनवकाधिरूढं निचुलकहस्तं
तुन्दिलं गदापाणि चेति॥७॥तथेशानं धवलवर्ण वृषभवाहनं त्रिनेत्रं शूलपाणिं चेति ॥८॥ तथा नागं
Jan Education Interne
For Private & Personal Use Only
C
a inelibrary.org