________________
REGARMS
पुनरिडा पिङ्गला सुष्मना सावित्री शङ्खिनी कूष्माण्डी यशोवती हस्तिजिह्वा पूषा अलम्बुषाख्यं नाडीदशकं ६ प्राणापानसमानोदानव्याननागकूर्मवृकदेवदत्तधनञ्जयाख्यवायुदशकं विन्यसेत् । ॐ हां इडायै नमः एवं सर्वा है अपि धनञ्जयान्ता विन्यसेत् । तदन्वाचार्यः गन्धपुष्पाक्षतादिभिः सम्पूज्य मुद्राभिरालभ्याईदाज्ञया प्रासादस्थितिपर्यन्तं त्वया स्थातव्यमित्यनेन मार्गेण धरान्तं निरोधयेत् । ततः शुकनासोवं गर्भगृहे खदायां हेमाघेकतमं कुम्भं मूर्तिभूतं विन्यस्य मधुघृताभ्यामापूर्य रत्नादिपञ्चकं विन्यस्य चन्दनादिना आलिप्य शुक्ले वाससी परिधाप्य रत्नपुरुषं विन्यसेत् । ततो भगवन्तं संपूज्याचार्याणां यथाशक्त्या पूजां विधाय भगवन्तं क्षामयेत् ॥ ॥ इति हृत्प्रतिष्ठा चतुर्थी॥॥अथ चूलिकादिप्रतिष्ठाविधिः॥ तत्र पूर्ववत् मण्डपवेदिकादिकं विधाय प्रतिष्ठोपयोगिद्रव्यजातमानीय भूतबलिं विधाय चैत्यवन्दनं कुर्यात् । तदनु चोत्तरवेदिकायां चूलकं कलशं ध्वजं धर्मचक्रं द्रव्यजातं चानीय रत्नौषधिकषायाष्टवर्गमृच्चन्दनसर्वोषध्यादिजलकलशैः संस्थाप्य श्वेते वाससी परिधाप्य अधिवासनामण्डपं प्रदक्षिणीकृत्य पूर्वद्वारेणान्तः प्रविश्य मूलवेदिकायां पर्यङ्के निवेश्य प्रतिमावत् सर्वेषां विधायात्ममन्त्रेण गन्धधूपपुष्पाक्षतादिभिरधिवास्य बलि निवेदयेत् । तदनु प्रासादं गत्वा कुम्भकजङ्घाशिखरकण्ठामलसारकेषु ब्रह्मपञ्चकं पृथिव्यादीनि च तत्त्वानि विन्यस्य पुष्पाक्षतादिभिर्मूलमत्रेण प्रासादमधिवासयेत् । ततो ध्वजं खर्मनेत्रपट्टांशकादिनिर्मितं कनकघण्टिकाघर्घरिकोपशोभितं विचित्रपुष्पकटकालते वृष
१ सुषुम्ना इति स्यात् ।
-
CROGRA
Jan Education in
For Private & Personal Use Only
www.jainelibrary.org