________________
प्रथमदिने तृतीयदिने वा विशेषपूजां विधाय लोकपालान् सम्पूज्य सुवासिनीमङ्गलपूर्वकं । ॐहूं धूं वीं सः । इत्यनेन मन्त्रेण प्रतिसरोन्मोचनकं कृत्वा नन्दावर्तसंनिधौ गत्वा विसर्जनार्थमर्घ दत्वा भोगाङ्गानि पूर्वोक्तन्यायेन संहृत्य देवे संयोज्य संहारमुद्रया स्वस्थानं गच्छ गच्छ इत्यनेन मन्त्रेण पूजां द्वादशान्तमानीय शिरस्यारोप्य पूरकेण सापेक्षं क्षमखेति हृत्कमले विसर्जयेत् ॥ उक्तंच । अहाहियावसाणे पडिस्सरोमुयणमेव कायच्वं । भूयबलिदीणदाणं एत्थंपि ससत्तिओ कुजा ॥१॥ ततो घृतदुग्धदध्यादिभिः स्नानं विधाय अष्टोत्तरशतेन वारकाणां लापयेत् । ततो मासं प्रति द्वादश स्नपनानि कृत्वा पूर्ण संवत्सरे अष्टाहिकापूर्विकां विशेषपूजां विधाय दीर्घायुग्रन्थिं निबन्धयेदित्येवमुत्तरोत्तरं विशेषपूजादिकं निःश्रेयसार्थिना सर्वदैवावहितेन कर्तव्यमिति । इय सत्तिविहवसत्ताणुसारओ वणिया पइहाउ । विहवाभावासत्तीए असहभावो इयं कुज्जा ॥१॥ पुहइमयं पिहु अट्टमेत्तयं तणकुडाए विसुओ य । सुइभूओ जिणबिंब ठविज इमिणा विहाणेण ॥२॥ संसारविरागमणो गरहानिंदाजुगुच्छियप्पाणो । काऊण भावमंगल पंचनमुक्काररूवं तु ॥३॥ १क्षु अन्यत्रपुस्तके । २अष्टाहिकावसाने प्रतिसरोन्मोचनमेव कर्तव्यं भूतबलिदीनदानं अत्रापि स्वशक्तितः कुर्यात् ।। ३देवदाणमित्यन्यत्रपुस्तके ।
४ इति शक्तिविभवसत्त्वानुसारतो वर्णिता प्रतिष्ठा तु । विभवाभावाशक्त्या अशठभाव इमां कुर्यात् ॥१॥ पृथ्वीमयं पृथु अङ्गुष्ठमात्रकं तृणकुट्यां विश्रुतश्च । शुचिभूतो जिनबिम्ब स्थापयेत् अनेन विधानेन ॥२॥ संसारविरागमना गर्दा निन्दाजुगुप्सितात्मा । कृत्वा भावमङ्गलं पञ्चनमस्काररूपं तु ॥३॥
NACAAAAAACACACA
Jain Education in
For Private & Personal Use Only
www.jainelibrary.org