SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ आचारदिनकरः विभागः विवाहवि. ॥३८॥ RGA णानन्तानुबन्धिभिः शब्दरूपरसगन्धस्पर्शेरिच्छानिच्छापरिसङ्कलितैः संबन्धोऽनुबन्धः प्रतिवन्धः संयोगः सुगमः सुकृतः सुनिवृत्तः सुतुष्टः सुपुष्ठः सुप्राप्तः सुलब्धो द्रव्यभावविशेषेण अहं ॐ" इति मंत्रं पठित्वा पुनरिति कथयेत् । “तदस्तु वां सिद्धप्रत्यक्षं, केवलिप्रत्यक्षं, चतुनिकायदेवप्रत्यक्षं, विवाहप्रधानाग्निप्रत्यक्षं, नामप्रत्यक्षं, नरनारीप्रत्यक्षं, नृपप्रत्यक्षं, जनप्रत्यक्षं, गुरुप्रत्यक्षं, मातृप्रत्यक्षं, पितृप्रत्यक्षं, मातृपक्षप्रत्यक्षं, पितृपक्षप्रत्यक्षं, ज्ञातिस्वजनबन्धुप्रत्यक्षं, संबन्धः सुकृतः सदनुष्ठितः सुप्राप्तः सुसङ्गतः तत् प्रदक्षिणीक्रियतां तेजोराशिविभावसुः।" इति कथयित्वा तथैव ग्रथिताञ्चलो वधूवरौ वैश्वानरं प्रदक्षिणीकुरुतः। तथा प्रदक्षिणीकृत्य तथैव पूर्वरीत्योपविशतो लाजात्रयस्य प्रदक्षिणात्रये पुरतो वधूः पश्चादरः दक्षिणे वध्वासनं वामे वरासनं इति प्रथमलाजाकर्म । तत आसनोपविष्टयोस्तयोर्गुरुर्वेदमंत्रं पठेत् । “ॐ अर्ह कर्मास्ति, मोहनीयमस्ति, दीर्घस्थितिरस्ति,निबिडमस्ति, दुश्छेद्यमस्ति, अष्टाविंशतिप्रकृतिरस्ति, क्रोधोऽस्ति, मानोऽस्ति मायास्ति, लोभोऽस्ति, संज्वलनोऽस्ति प्रत्याख्यानावरणोऽस्ति, अप्रत्याख्यानावरणोऽस्ति अनन्तानुबन्ध्यस्ति, चतुश्चतुर्विधोऽस्ति, हास्यमस्ति, रतिरस्ति, अरतिरस्ति, भयमस्ति, जुगुप्सास्ति, शोकोऽस्ति, पुवेदोऽस्ति, स्त्रीवेदोऽस्ति, नपुंसकवेदोऽस्ति, मिथ्यात्वमस्ति, मिश्रमस्ति, सम्यक्त्वमस्ति, सप्ततिकोटाकोटिसागरस्थितिरस्ति, अर्ह ॐ।" इति वेदमंत्रं पठित्वा पुनरिति कथयेत्-"तदस्तु वां निकाचितनिबिडबद्धमोहनीयकर्मोदयकृतः स्नेहः सुकृतोऽस्तु, सुनिष्ठितोऽस्तु, सुसंबद्धोऽस्तु, आभवमक्षयोऽस्तु तत्प्रदक्षिणीक्रियतां विभावसुः।" पुनरपि तथैव R CANCE ॥३८॥ Jain Education inte For Private & Personal Use Only sanelibrary.org
SR No.600003
Book TitleAchar Dinkar
Original Sutra AuthorVardhmansuri
Author
PublisherJaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
Publication Year1981
Total Pages566
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy