SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ Strong वहिं प्रदक्षिणीकुर्यात् । इति द्वितीयलाजाकर्म । चतसृष्वपि लाजासु प्रदक्षिणाप्रारंभे बधूर्वही लाजामुष्टिं क्षिपेत् । ततस्तयोस्तथैवोपविष्ठयोर्गुरुरिति वेदमंत्रं पठेत्-"ॐ अहं कर्मास्ति, वेदनीयमस्ति, सातमस्ति, असातमस्ति, सुवेद्यं सातं दुर्वेद्यमसातं, सुवर्गणाश्रवणं सातं दुर्वर्गणाश्रवणमसातं, शुभपुद्गलदर्शन सातं दुष्पुदलदर्शनमसातं, शुभषड्रसास्वादनं सातं अशुभषड्रसास्वादनमसातं शुभगन्धावाणं सातं अशुभगन्धाघ्राणमसातं शुभपुद्गलस्पर्शः सातं अशुभपुद्गलस्पर्शोऽसातं, सर्व सुखकृत्सातं सर्व दुःखकृदसातं, अर्ह ॐ।" इति वेदमंत्रं पठित्वा इति कथयत्-"तदस्तु वां सातवेदनीयं माभूदसातवेदनीयं तत्प्रदक्षिणीक्रियतां विभावसुः।" इति वैश्वानरं प्रदक्षिणीकृत्य वधूवरो तथैवोपविशतः इति तृतीयलाजाकर्म । ततो गृह्यगुरुरिति वेदमंत्रं पठेत्-"ॐ अहं सहजोऽस्ति, स्वभावोऽस्ति, संबन्धोऽस्ति, प्रतिबद्धोऽस्ति मोहनीयमस्ति, वेदनी यमस्ति, नामास्ति, गोत्रमस्ति, आयुरस्ति, हेतुरस्ति, आश्रवबद्धमस्ति, क्रियाबद्धस्ति, कायबद्धमस्ति, तदस्ति सांसारिकः संवन्धः अर्ह ॐ।" इति वेदमंत्रं पठित्वा कन्यायाः पितुः पितृव्यस्य भ्रातुः कुलज्येष्ठस्य वा हस्तं तिलयवकुशदृर्वागण जलेन पूरयित्वा इति वदेत् , “अद्यामुकसंवत्सरे अमुकायने अमुकौ अमुकमासे अमुकपक्षे अमुकतिथौ अमुकवारे अमुकनक्षत्रे अमुकयोगे अमुककरणे अमुकमुहले पूर्वकर्मसंबन्धानुबद्धां वस्त्रगन्धमाल्यालङ्कतां सुवर्णरूप्यमणिभूषणभूषितां ददात्ययं, प्रतिगृह्रीब्व" इति कथयित्वा वधूवरयोर्युक्तहस्तान्तराले इति जलं निक्षेपयेत् । वरः कथयति-"प्रतिगृहामि प्रतिगृहीता ।' गुरुः कथयति, "सुप्रतिगृ Jan Education Interna For Private & Personal Use Only Alibrary.org
SR No.600003
Book TitleAchar Dinkar
Original Sutra AuthorVardhmansuri
Author
PublisherJaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
Publication Year1981
Total Pages566
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy