SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ 4COMRESCRECRORESCRROGRESS ततः पूर्व वरपक्षीयाः स्वगोत्रप्रवरज्ञात्यन्वयप्रकाशनं कुर्वते । ततश्च ते पुनः वरस्य मातृपक्षीया गोत्रप्रवरज्ञात्यन्वयान प्रकाशयन्ति ततः कन्यापक्षीयाः स्वगोत्रप्रवरज्ञात्यन्वयान प्रकाशयन्ति । ते पुनः कन्याया मातृपक्षीया गोत्रप्रवरज्ञात्यन्वयादि प्रकाशयन्ति । ततो गृह्यगुरु:-"ॐ अहं अमुकोऽमुकगोत्रीयः, इयत्प्रवरः, अमुकज्ञातीयः, अमुकान्वयः, अमुकप्रपौत्रः, अमुकपौत्रः, अमुकपुत्रः, अमुकगोत्रीयः, इयत्प्रवरः, अमुकज्ञातीयः, अमुकान्वयः, अमुकप्रदौहित्रः, अमुकगोत्रीयः, इयत्प्रवरः अमुकज्ञातीयः, अमुकान्वयः, अमुकदौहित्रः, अमुकगोत्रीया, इयत्प्रवरा, अमुकज्ञातीया, अमुकान्वया, अमुकप्रपौत्री, अमुकपौत्री, अमुकपुत्री, अमुकगोत्रीया, इयत्प्रवरा, अमुकज्ञातीया, अमुकान्वया, अमुकप्रदौहित्री, अमुकगोत्रीया, इयत्प्रवरा, अमुकज्ञातीया, अमुकावया, अमुकदोहिनी अमुकावर्या, तदेतयोर्वर्यावरयोर्वरवर्ययोनिबिडो विवाहसंबन्धोऽस्तु, शान्तिरस्तु, पुष्टिरस्तु, तुष्टिरस्तु धृतिरस्तु, बुद्धिरस्तु, धनसन्तानवृद्धिरस्तु अहं ॐ" ततो गृह्यगुरुवरवधूसकाशात् गन्धपुष्पपनैवेद्यैर्वैश्वानरपूजां कारयेत् । ततो वधूलाजाञ्जलिं वहौ निक्षिपेत् । ततः पुनस्तथैव दक्षिणे वधूः वामे वर उपविशेत् । ततो गृह्यगुरुर्वेदमंत्रं पठेत्-"ॐ अर्ह अनादि विश्वमनादिरात्मा, अनादिः कालोsनादि कर्म, अनादिः संबन्धो देहिनां देहानुगतानुगतानां क्रोधाहङ्कारच्छद्मलोभैः संज्वलनप्रत्याख्यानावर १ अनेनोपदेशेन वरकन्याभ्यामुभाभ्यामेवोभयवंशशुद्धाभ्यां भाव्यमित्युपपाद्यते एतेनानादृतगोत्रप्रवरज्ञातिव्यवहारा वर्णसंकरसंकीर्णतादिप्रचारतत्परा गोत्रादिनिरपेक्षो विवाहइतिवादिनो नवीनाः परास्ताः, Jain Education in USD For Private & Personal Use Only Duainelibrary.org
SR No.600003
Book TitleAchar Dinkar
Original Sutra AuthorVardhmansuri
Author
PublisherJaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
Publication Year1981
Total Pages566
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy