________________
हितं देहि २ स्वाहा।" इति तोरणप्रतिष्ठा। ततोऽग्निकुण्डे वेदिमध्याग्नेयकोणेऽग्नि न्यसेत् मंत्रपूर्व । अग्निन्यासमंत्रो यथा-"ॐ रां री रौं र नमोऽग्नये, नमो वृहदभानवे, नमोऽनन्ततेजसे, नमोऽनन्तवीर्याय, नमोऽनन्तगुणाय, नमो हिरण्यरेतसे, नमः छागवाहनाय, नमो हव्याशनाय, अत्र कुण्डे आगच्छ २, अवतर २, उत्तिष्ठ २, स्वाहा ।" समयान्तरे देशान्तरे कुलान्तरे च हस्तलेपनं वेद्यन्तरेव कुर्वन्ति । देशकुलाचारादौ मधुपर्कप्राशनानन्तरं वेदिहस्तलेपात् प्रथमं परस्परं कम्बायुद्धकण्ठायुधवधूवरास्फालनवेडानयनमणिग्रथनस्नानभ्राष्ट्रकर्मपर्याणकर्मवस्त्रकौसुंभसूत्राकर्षशप्रभृतिकर्माणि कुर्वन्ति । तानि च देशविशेषाल्लोकेभ्यो विज्ञेयानि न व्यवहारशास्त्रक्तानि । परं स्त्रीभिः सौभाग्यशाप्तये सपत्न्याद्यभावाय वरवशीकरणाय च क्रियन्ते । ततो वधूवरौ युक्तहस्तावेव नारीनरकटयारूलौ गीतवान्यदिडंबरे महति दक्षिणद्वारेण प्रवेश्य वेदिमध्यमानयेत् । ततो देशकुलाचारेण काष्ठासनयोर्वेत्रासनयोः सिंहासनयोः अधोमुखीकृत्य शरमयखार्योर्वा वधूवरौ पूर्वाभिमुखावुपवेशयेत् । तथा हस्तलेपे वेदिकर्मणि च कुलाचारानुसारेण सदशकौरवस्त्राणि वा कौसुंभवस्त्राणि वा स्वभाववस्त्राणि वधूवरयोः परिधाप्यन्ते । ततो गृह्य गुरुरुत्तराभिमुखः मृगाजिनासीनो वहिं शमीपिप्पलकपित्थकुटजबिल्वामलकसमिद्भिः प्रबोव्य अनेन मंत्रेग धृतमधुतिलयवनानाफलानि जुहयात् । मंत्रो यथा-"ॐ अहं ॐ अग्ने प्रसन्नः सावधानो भव, तवायमसरः, तदाकारयेन्द्र यमं नैतिं वरुणं वायुं कुबेरमीशानं. नागान् ब्रह्माणं लोकपालान् , ग्रहांश्च सूर्यशशिकुजसौम्यवृहस्प
SAHASRA-KARERAKRESS
भा. दि.७
Jain Education inter
For Private&Personal use Only
pelibrary.org