SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ आचार: दिनकरः विवाहवि. ॥३६॥ KARAOSAUROSESSO g] त्तोऽसि, समवचा असि, समानुपणोऽसि, समगमोऽसि, समागमोऽसि, समविहारोऽसि, समविषयोऽसि, | विभागः १ समशब्दोऽसि, समरूपोऽसि, समरसोऽसि, समगन्धोऽसि, समस्पर्शोऽसि, समेन्द्रियोऽसि, समाश्रवोऽसि, समबन्धोऽसि, समसंवरोऽसि, समनिर्जरोऽसि, सममोक्षोऽसि, तदेधेकत्वमिदानीं अहं ॐ।" इति हस्तवन्धनमन्त्रः। अत्र समयान्तरे देशान्तरे कुलान्तरे लग्नसाधनवेलायां मधुपर्कप्राशनं वराय गोयुग्मदानं कन्याया आभरणपरिधापनं इत्यादि कुर्वन्ति । ततः वधूवरयोः मातृगृहोपविष्ठयोः सतोः कन्यापक्षीया वेदिरचनां कुर्वन्ति । तस्या विधिरयं-कैश्चित् काष्ठस्तंभः काष्ठच्छादनैः मण्डपान्तश्चतुष्कोणा वेदी क्रियते । कैश्चिच्च यथोपरि लघुलघुभिश्चतुष्कोणनिहितैमपर्युपरिधृतैः स्वर्णरूप्यताम्रमृत्कलशैः सप्त सप्त सवन्यैः चतुःपार्श्वचतुश्चतुरार्द्रवंशबर्वेदी क्रियते । चतुर्वपि धारेषु वस्त्रमयानि काष्ठामयानि वा तोरणानि वन्दनमालिकाश्च । अन्तस्त्रिकोणमग्निकुण्डं । ततो गृह्यगुमः पूर्वोक्तवेषधारी वेदीप्रतिष्ठां कुर्यात् । तस्याश्चायं विधिः-वासपुष्पाक्षतपरिपूर्णहस्तः, "ॐ नमः क्षेत्रदेवतायै शिवायै क्षाँ क्षी झू झाँक्षा इह विवाहमण्डपे आगच्छ २, इह बलिपरिभोग्यं गृहे २ भोगं देहि, सुखं देहि, यशो देहि, सन्ततिं देहि, ऋद्धिं देहि, वृद्धिं देहि, सर्वसमीहितं देहि देहि स्वाहा ।” इति पठित्वा चतुर्वपि कोणेषु प्रत्येकं वासमाल्याक्षतज्ञेपः । तोरणस्य प्रतिष्ठा चैवं । तन्मंत्रो यथा-"ॐ ह्रीँ श्रीँ नमो द्वारश्रिये सर्वपूजिते सर्वमानिते सर्वप्रधाने इह तोरणस्था सर्व समी १ गृहाणेत्यर्थः । ॥३६॥ Jan Education For Private & Personal use only Alainelibrary.org
SR No.600003
Book TitleAchar Dinkar
Original Sutra AuthorVardhmansuri
Author
PublisherJaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
Publication Year1981
Total Pages566
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy