SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ गुरुवन्दनं मण्डलीपूजनं पुरदेवतादिपूजन विधाय पुरोगान्ते लिष्टेत । ततः पथि गच्छेत् । तथा अनथैव रोत्या कन्याधिष्ठितपुरप्रवेशोऽपि विधेयः । तत्रैव पुरे विवाहाय चलतो वरस्थाप्ययमेव विधिः । तथा नित्यस्नानानन्तरं वधूवरयोः कौसुंभसूत्रेण शरीरमानं । ततः समागते विवाहदिने विवाहलग्नादर्वाक तत्पुरवासी वा अन्यदेशागतो वा वरः तेनैव पूर्वोक्तेन विधिना पाणिग्रहणाय चलेत् । तदागिन्यो विशेषेण लवणायुत्तारणं कुर्वन्ति । ततो वरस्याडंबरः गृह्यगुरुसहितः रध्यागृहवारि गच्छेत् । तत्र तिष्ठतस्तस्य श्वभूजनः कर्पूरदीपा दिभिरारात्रिकं कुर्यात् । ततोऽन्या शरावसंपुटं ज्वलदङ्गारलवणगर्भ त्रणत्रडिति शब्दायमानं वरस्य निरु3 छनं विधाय वरप्रवेशवाममार्गे स्थापयेत् । ततोऽन्या मन्थानं कौसुंभवत्रालङ्कृतं समानीय त्रिवेलं तेन वर-18 ललाटं स्पृशेत् । ततो वरो वाहनादुत्तीर्य वामपादेन तदग्निलवणगर्भ शरावसंपुटं खण्डयेत् । ततो वरश्वभूः कन्यामातुलपत्नी वा कन्यामातुलो वा कौसुंभवस्त्रं वरकंठे निक्षिप्याकृष्यमाणं मातृगृहं नये । तत्र पूर्वमासने निविष्टाया विभूषितायाः कृतकौतुकमङ्गलायाः कन्याया वामपार्श्व मातृदेव्यभिमुखं वरं निवेशयेत् । ततो गृद्यगुरुर्लग्नवेलायां शुभांशके चन्दनद्रव्यसंपिष्टशमीत्वकपिप्पलत्वमिश्रितलिप्तौ वधूवरयोदक्षिणहस्तौ योजयेत् । उपरि कौसुंभसूत्रेणा बध्नीयात् । हस्तबन्धनमन्त्रः-"ॐ अर्ह आत्मासि, जीवोऽसि, समकालोऽसि, समचित्तोऽसि, समकर्मासि, समायोसि, समदेहोऽसि, समक्रियोऽसि, समस्नेहोऽसि, समचेष्टितोऽसि, समाभिलाषोऽसि, समेच्छोऽसि, समप्रमोदोऽसि, समविषादोऽसि, समावस्थोऽसि, समनिमि Jan Education a l For Private & Personal Use Only Alww.jainelibrary.org
SR No.600003
Book TitleAchar Dinkar
Original Sutra AuthorVardhmansuri
Author
PublisherJaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
Publication Year1981
Total Pages566
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy