________________
GHOSTAARABUCC
प्रथमतैलाभिषेकदिने वेरगृहात्कन्यागृहे तैलशिराप्रसाधनगन्धवस्तुद्राक्षादिखाद्यशुष्कफलप्रेषणं सागरवधूजनैवरगृहे कन्यागृहे च तैलधान्यादिढोकनं विधेयं । वधूवरगृहसत्कवृद्ध नारीभिः ताभ्यो धान्यतैलढोकनीभ्यो नारीभ्यः अपूपादि पक्वान्नं देयं । तत्र धारणाप्रभृति देशाचारकुलाचारैविधेयं । तैलाभिषेककुलकरगणेशादिस्थापनं कणबन्धनमन्यविवाहोपचारादि सर्व वधूवरयोश्चन्द्रबले वैवाहिके नक्षत्रे च विधेयं । तथा धूलिभक्तकौरभक्तसौभाग्यजलानयनप्रभृति मङ्गलकर्म मङ्गलगीतवाद्यसहितं देशाचारकुलाचारविशेषाद्धि धेयं । ततो यदि वरोऽन्यत्र ग्रामान्तरे नगरान्तरे देशान्तरे वा भवति तदा तस्य यज्ञयात्रा कन्यानिवासस्थानं प्रति विधीयते तस्यायं विधिः । एकस्मिन् प्रथमेऽहनि मातृपूजापूर्व पूर्वेषां जनानां भोजनं देयं । ततो द्वितीयेहि वरः सुस्नातश्चन्दनानुलिप्तः सर्ववस्त्रगन्धमाल्यसंस्कृतः किरीटभूषितशिरा अश्वाधिरूढो गजाधिरूढो वा नरयानाधिरूढो वा चलति । तत्समीपे जनाः सुवसनाः सप्रमोदाः सतांबलवदनाः संबन्धिज्ञातिजनाः स्वसंपत्या तुरंगाद्यधिरूढाः पदातयो वा वरेण साई चलन्ति । पार्श्वयोरुभयोर्मङ्गलगानप्रसक्ताः चलन्ति ज्ञातिनार्यः। पुरतोऽस्य ब्राह्मणा ग्रहशान्तिमंत्रं पठन्तश्चलन्ति । स यथा-"ॐ अहं आदिमोऽईन् , आदिमो नृपः आदिमो नियन्ता, आदिमो गुरुः आदिमः स्रष्ठा, आदिमः कर्ता, आदिमो भर्ता, आदिमो जयी, आदिमो नयो आदिमः शिल्पी, आदिमो विद्वान्, आदिमो जल्पका, आदिमः शास्ता,
१. बरगृहे कन्यागृहे च इति पुस्तकान्तरे । २ 'माल्यालङ्कृतः' इत्यपि ।
ACAOSAT
Jain E
estion inte
For Private & Personal Use Only
CAMEnelibrary.org