________________
आचार
दिनकरः
विभागः१ विवाहवि.
॥३४॥
पुष्पद्धयं धूपद्धयं दीपद्धयं उपवीतमेकं स्वर्णमुद्रादयं नैवेद्यद्वयं तांबूलद्धयं दद्यात् १ ततः द्वितीयस्थाने-"ॐ नमो द्वितीयकुलकराय, श्यामवर्णाय, श्यामवर्णचन्द्रकान्ताप्रियतमासहिताय, हाकारमात्रख्यापितन्यायपथाय, चक्षुष्मदभिधानाय, शेषं पूर्ववत् २ । ॐ नमस्तृतीयकुलकराय, श्यामवर्णाय, श्यामवर्णसुरूपाप्रियतमासहिताय, माकारमात्रख्यापितन्यायपथाय, यशस्व्यभिधानाय, शेषं पूर्ववत् ३ । ॐ नमश्चतुर्थकुलकराय, श्वेतवर्णाय, श्यामवर्णमतिरूपाप्रियतमासहिताय, माकारमात्रख्यापितन्यायपथाय, अभिचन्द्राभिधानाय, शेषं पूर्ववत् ४।ॐ नमः पञ्चमकुलकराय श्यामवर्णाय, श्यामवर्णचक्षुःकान्ताप्रियतमासहिताय, धिक्कारमात्रख्यापितन्यायपथाय, प्रसेनजिदभिधानाय, शेषपूर्ववत् ५। ॐ नमः षष्ठकुलकराय, स्वर्णवर्णाय, श्यामवर्णश्रीकान्ताप्रियतमासहिताय, धिक्कारमात्रख्यापितन्यायपथाय, मरुदेवाभिधानाय, शेषं पूर्ववत् ६।ॐ नमः | सप्तमकुलकराय, काञ्चनवर्णाय, श्यामवर्णमरुदेवाप्रियतमासहिताय, धिक्कारमात्रख्यापितन्यायपथाय, नाभ्यभिधानाय शेषं पूर्ववत् ७ ॥ इति कुलकरस्थापनापूजनविधिः । इयं कुलकरस्थापना परसमये गणेशमदनस्थापना च विवाहानन्तरमपि सप्ताहोरात्रपर्यन्तं रक्षणीया । ततः शान्तिकं पौष्टिकं च वरगृहे कुर्यात् । कन्यागृहे मातृपूजां पूर्ववत् । ततः सप्तसु नवसु एकादशसु त्रयोदशसु विवाहकालात्पूर्वदिवसे वधूवरयोः स्वस्वगृहे मङ्गलगीतवादित्रवादनपूर्व तैलाभिषेकः स्नानं च विवाहपर्यन्तं नित्यं तथैव वधूवरयोः स्नानं ।
॥३४॥
Jain Education inclusal
For Private & Personal Use Only
स
ainelibrary.org