SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ Jain Education पुष्पद्र्वाभिर्जन्मलग्नवद विवाहलग्नमर्चयेत् । ततो ज्योतिषिकाय उभयपक्षवृद्वैर्वखालङ्कारताम्बूलदानं देयं इति विवाहारंभः । ततः कौरशरावेषु यववापनं । ततः कन्यागृहे मातृस्थापनं षष्ठयाः स्थापनं षष्ठ्यादिप्रक्रमो क्तप्रकारेण । वरगृहे जिनसमयानुसारेण मातृकुलकरस्थापनं । परसमये गणपतिकन्दर्पस्थापनं । गणपतिकदस्थापनं सुगमं लोकप्रसिद्धं । कुलकरस्थापनविधिरुच्यते । गृह्यगुरुर्भूमिपतितगोमयलिप्तभूमौ स्वर्णमयं रूप्यमयं ताम्रमयं श्रीपर्णकाष्टमयं पट्टकं स्थापयेत् । पट्टस्थापनमंत्रः - "ॐ आधाराय नमः आधारशक्तये नमः आसनाय नमः, ।” अनेन मंत्रेणैकवारं परिजप्य पटं स्थापयेत् । तं पदं अतामंत्रेण तीर्थजलैरभिषिश्वेत् । ततश्चन्दनक्षतदूर्वाभिः पहं पूजयेत् । तत आदौ - "ॐ नमः प्रथमकुलकराय, काञ्चनवर्णाय, श्यामवर्णचन्द्रयशः प्रियतमासहिताय, हाकारमात्रीच्चारस्थापितन्यायपथाय, विमलवाहनाभिधाय, इह विवाहमहोत्सवाद आगच्छ २, इह स्थाने तिष्ठ २, सन्निहितो भव २, क्षेमदो भव २, उत्सवदो भव २, आनन्ददो भव २, भोगदो भव २, कीर्त्तिदो भव २, अपत्यसन्तानदोभव २, स्नेहदोभव २, राज्यदो अव २, इदमध्ये पायं बलिं चरुं आचमनीयं गृहाण २, सर्वोपचारान् गृहाण २ । तत ॐ गन्धं नमः, ॐ पुष्पं नः, ॐ धूपं नमः, ॐ दीपं नमः, ॐ उपवीतं नमः, ॐ भूषणं नमः, ॐ नैवेद्यं नमः ॐ तांबूलं नमः । पूर्वेण मंत्रेण आदाय संस्थाप्य संनिहितां कृत्य अर्घ्यपाद्यवलिचवचमनीयदानं दद्यात् । अपरे ॐकारादिभिमत्रैर्गन्ध तिलकद्वयं १ ख्यापित इत्यपि पाठः । For Private & Personal Use Only v.jainelibrary.org
SR No.600003
Book TitleAchar Dinkar
Original Sutra AuthorVardhmansuri
Author
PublisherJaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
Publication Year1981
Total Pages566
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy