________________
विभाग:
आचारदिनकरः
विवाहवि.
॥३३॥
गुरुवाक्यविशेषतः । अनुज्ञातं विवाहादि गर्गादिमुनिभिः पुरा ॥१॥ सूर्यः षत्रिदशस्थितस्त्रिदशषट्सप्ताद्यगश्चन्द्रमा जीवः सप्तनवदिपञ्चमगतो वक्रार्कजो पब्रिगौ। सौम्यः ष वतुर्दशाष्ठमगतः सर्वेऽप्युपान्ते शुभाः शुक्रः सप्तमषदशक्षसहितः शार्दूलवत् त्रासकृत् ॥२॥सुरगुरुबलमबलानां पुरुषाणामहिमरश्मिबलमेव । चन्द्रबलं दंपत्योरवलम्ब्य विशोधयेल्लग्नम् ॥२॥" तथा च पूर्व कन्यादानविधिः । पूर्वोदितसमानकुलशीलेभ्योऽन्यगोत्रेभ्यः कन्यां याचयेत् । तादृशाय वराय कन्या दातव्या कन्याकुल ज्येष्ठेन वरकुलज्येठाय नालिकेरक्रमुकजिनोपवीतत्रीहिदाहरिद्रादानेन स्वस्वदेशकुलोचितेन कन्यादानं कार्य । तत्र गृह्यगुरुवेदमंत्रं पठेत् । स यथा-"ॐ अहं परमसौभाग्याय, परमसुखाय, परमभोगाय, परमधर्माय, परमयशसे, परमसन्तानाय भोगोपभोगान्तरायव्यवच्छेदाय, इमाममुकनाम्नी कन्याममुकगोत्राममुकनाम्ने वराय अमुकगोत्राय ददाति, प्रतिगृहाणअहं ॐ।" ततः सर्वेभ्यो लोकेभ्यः कन्यापक्षीयास्ताम्बूलं ददति । तथा च दूरस्थे विवाहकाले वरपितर्यमृते नान्यस्मै सा कन्या देया। उक्तं च यतः-"सकृजल्पन्ति राजानः सकृजल्पन्ति पण्डिताः । सकृत् प्रदीयते कन्या त्रीण्येतानि सकृत् सकृत् ॥१॥" तथा वरोऽपि तस्यै कन्याय वस्त्राभरणगन्धप्रसाधनादि सोत्सवं तपितृगृहे दद्यात् । कन्यापित्रापि वराय सपरिजनाय भोजनं समहोत्सवं वस्त्राइगुलीयादि च देयं । तथा च लग्नदिनात् प्राक् मासे वा पक्षे वा वैयय्यानुसारेण उभयोः पक्षयोः परिजनं सङ्घटय सांवत्सरमुत्तमासने निवेश्य तत्करेण विवाहलग्नं शुभभूमौ लेखयेत् । रूप्पस्वर्णमुद्राफल
Jain Education
a
l
For Private & Personal use only
ainelibrary.org