________________
मंत्रो यथा-"ॐ सधर्मोऽसि, अधर्मोऽसि, कुलीनोऽसि, अकुलीनोऽसि, सब्रह्मचर्योऽसि, अब्रह्मचर्योऽसि, सुमना असि, दुर्मना असि, श्रद्धालुरसि, अश्रद्धालुरसि, आस्तिकोऽसि, नास्तिकोऽसि, आईतोऽसि, सौगतोऽसि, नैयायिकोऽसि, वैशेषिकोऽसि, साड्योऽसि, चार्वाकोऽसि, सलिङ्गोऽसि, अलिङ्गोऽसि, तत्वज्ञोऽसि, अतत्वज्ञोऽसि, तद्भव ब्राह्मणोऽमुनोपवीतेन भवन्तु ते सर्वार्थसिद्धयः।" अनेग मंत्रेण नववारं पठितेनोपवीतस्थापनम् । ततस्तस्य करे पालाशदण्डं दद्यात् । मृगाजिनं च परिधापयेत् । भिक्षामार्गणं च कारयेत् । ततो भिक्षामार्गणानन्तरमुपवीतवर्जितं मेखलाकौपीनाजिनदण्डाद्यपनयेत् । तदपनयनमंत्रो यथा-"ॐ ध्रुवोऽसि, स्थिरोऽसि, तदेकमुपवीतं धारय ।" इति त्रिः पठेत् । ततो गुरुस्तं कृतश्वेतनिवसनोतरासङ्गं पुरो निवेश्य शिक्षयेत् । यथा-"परनिन्दां परद्रोह परस्त्रीधनवाञ्छनम् । मांसाशनं म्लेच्छकन्दभक्षणं चैव वर्जयेत् ॥ १॥ वाणिज्ये स्वामिसेवायां कपटं मा कृथाः क्वचित् । ब्रह्मस्त्रीभ्रू गगोरक्षादेवर्षिगुरुसेवनम् ॥ २॥ अतिथीनां पूजनं च कुर्यादानं यथाधनम् । अघात्यघातं मा वृथा परतापनम् ॥३॥ उपवीतमिदं स्थाप्यमाजन्म विधिवत्त्वया । शेषः शिक्षाविधिः कथ्यश्चातुर्वर्ण्यस्य पूर्ववत् ॥ ४॥" ततः स बटूवकृतो गृह्यगुरवे स्वर्णवस्त्रधेन्वन्नदानं कुर्यात् । अत्र बटूकरणे वेदीचतुष्किकासमवसरणचैत्यवन्दनबतानज्ञावतविसर्गगोदानवासःक्षेपादि नास्ति । इति बटकरणविधिः-“पौष्टिकस्योपकरणं मौसी कौपीनवल्कले।
१ 'शिक्षाक्रमः' इत्यपि पाठः ।
Jain Education
a UDI
l
For Private & Personal Use Only
X
w.jainelibrary.org