________________
आचारः दिनकरः
विभागः१ उपनयन.
॥२९॥
शिक्षाकरणाय कल्पन्ते । अतस्तथाविधेषु पूर्वोक्तेषु कर्मसु बटूकृता ब्राह्मणा योजयितुं योग्या भवन्ति । अतस्तेषां बटकरणविधिविधीयते । उक्तं च, यतः-"च्युतव्रतानां नात्यानां तथा नैवेद्यभोजिनाम् । कुकर्मणामवेदानामजपानां च शस्त्रिणाम् ॥१॥ ग्राम्याणां कुलहीनानां विप्राणां नीचकर्मणाम् । प्रेतान्नभोजिनां चैव मागधानां च बन्दिनाम् ॥ २॥ घाण्टिकानां सेवकानां गन्धतांबूलजीविनाम् । नटानां विप्रवेषाणां परशुरामान्वयायिनाम् ॥ ३ ॥ अन्यजात्युद्भवानां च बन्दिवेषोपजीविनाम् । इत्यादि विप्ररूपाणां बटूकरणमिष्यते॥४॥” तस्य चायं विधिः-पूर्व तस्य गृहे गृह्यगुर्यथोक्तविधिना पौष्टिकं कुर्यात् । ततस्तं शिष्यं संस्थाप्य मुण्डनं कारयेत् । ततस्तं तीर्थोदकैमत्राभिमंत्रितैः स्नपयेत् । तीर्थोदकाभिमंत्रणमंत्री यथा-"ॐ वं वरुणोऽसि, तैर्थमसि, अमृतमसि, जीवनमसि, पवित्रमसि, पावनममि, तदमुं पवित्रय कुलाचाररहितमपि देहिनं ।” अनेन मंत्रेण कुशाग्रेण सप्तवारमभिषिञ्चेत् । ततो नदीकूले तीर्थे देवायतने वा पवित्रे वा गृहे स्थाने तस्य बटूकरणीयस्य पूर्व त्रिगुणा कुशमयमेखलां त्रिधा बन्धीयात् । मेखलावन्धमंत्रो यथा-"ॐ पवित्रोऽसि, प्राचीनोऽसि, नवीनोऽसि, सुगमोऽसि, अजोऽसि, शुद्धजन्मासि, तदमुं देहिनं धृतवतमव्रतं वा पावय, पुनीहि अब्राह्मणमपि ब्राह्मणं कुरु ।” इति त्रिवेलं पाठः। ततस्तस्य कौपीनं परिधापयेत् । कौपीनमंत्रो यथा-"ॐ अब्रह्मचर्यगुप्तोऽसि ब्रह्मचर्यधरोऽपि वा । वृतः कौपीनबन्धेन ब्रह्मचारी निगद्यते ॥१॥" इति त्रिवेलं पठित्वा कौपीनं परिधापयेत् । ततः पूर्वोक्तं ब्राह्मणसदृशमुपवीतं मंत्रपूर्व परिधापयेत् । IC
॥२९॥
Jain Education
a
l
For Private & Personal Use Only
jainelibrary.org