________________
पुरो व्रतानुज्ञा दद्यात् । सा यथा-"सम्यक्त्वेनाधिष्ठितानि ब्रतानि हादशैव हि । धार्याणि भवता नैव कार्यः कुलमदस्त्वया ॥१॥ जैनर्षीणां तथा जैनब्राह्मणानामुपासनम् । विधेयं चैव गीतार्थाचीर्ण कार्य तपस्त्वया ॥२॥ न निन्द्यः कोऽपि पापात्मा न कार्य स्वप्रशंसनम् । ब्राह्मणेभ्यस्त्वयामान्नं दातव्यं हितमिच्छता ॥३॥ शेषं चतुर्वर्णशिक्षाश्लोकव्याख्यानमाचरेत् । उत्तरीयपरिभ्रंशे भङ्गे वाप्युपवीतवत् ॥ ४॥ कार्य व्रतं प्रेतकर्मकरणं वृषल त्वया । युक्तिरेषोत्तरासङ्गानुज्ञायां च विधीयते ॥६॥क्षत्राणामथ वैश्यानां देशकालादियोगतः । त्यक्तोपवीतानां कार्यमुत्तरासङ्गयोजनम् ॥६॥ धर्मकार्य गुरोदृष्टौ देवगुर्वालयेऽपि च । धार्यस्तथोत्तरासङ्गः सूत्रवत्प्रेतकर्मणि ॥७.1 अन्येषामपि कारूणां गुर्वनुज्ञां विनापि हि । गुरुधर्मादिकार्ये उत्तरासङ्ग इष्यते ॥८॥” इति व्याख्याय गुरुः शिष्यस्य चैत्यवन्दनं कारयेत् । परमेष्ठिमंत्रोच्चारणं च मंत्रव्याख्यानं पूर्ववत् । नवरंशद्रादीनां 'नमो' स्थाने 'णमो' उच्चारयेत् । इति गुरुसंप्रदायः। तत्र सशिष्यो गुरुरुत्सवे क्रियमाणे धर्मागारं व्रजेत् । तत्र मण्डलीपूजा गुरुनमस्कृतिवासाक्षेपादि पूर्ववत् । ततो मुनिभ्योऽन्नवस्त्रपात्रदानं । चतुर्विधसङ्घपूजा च ॥ इत्युपनयने शद्रादीनां उत्तरीयकन्यासोत्तरासङ्गानुज्ञाविधिः॥ ॥ अथ बटकरणविधिः । यतो ब्राह्मणाः सम्यगुपनीता वेदविद्यागर्भा दुष्प्रतिग्रहवर्जिता अशद्रानभोजिनो माहनाचाररताः सर्वगृह्यसंस्कारप्रतिष्ठादिकर्मतः पूज्या भवन्ति । न ते माहनाःक्षत्रियादीनां नृपाणां शुश्रूषान्नपाकतदाज्ञाकरणाभ्युत्थानचाटुप्रशंसानमस्कारविनाभूताशीर्वाददानादिज्ञानकर्मकृषिवाणिज्यकरणतुरङ्गवृषभादि
For Private & Personal Use Only
Mainelibrary.org
Jain Education in
Sela