SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ आचार: दिनकरः विभाग उपनय ॥२८॥ षजवसतिपुस्तकादिदाने धर्मलाभ एव मंत्रः, न तेभ्यो द्रव्यापेक्षिदानं केवलमसङ्गत्वात् परिग्रहव्यावृत्तेः। अथ गृह्यगुरुरुपनीतागोदानं गृहीत्वा वर्णानुज्ञां दत्वा चैत्यवन्दनं साधुवन्दनं विधाप्य तथैव सङ्घ मिलिते मङ्गलगीतवाद्येषु प्रसरत्सु शिष्यं साधुवसतिं नयेत् । तत्र पूर्ववत् मण्डलीपूजा वासाक्षेपः साधुवन्दनं । ततश्चतुर्विधसङ्घस्य पूजा मुनिभ्यो वस्त्रान्नपात्रादिदानं इति गोदानविधिः। संपूर्णोऽयं चतुर्विध उपनयनविधिः॥ ॥ अथ शुद्रस्योत्तरीयकन्यासविधिः । सप्ताहं तैलनिषेकस्नानं पूर्ववत् । तदनन्तरं पौष्टिकं यथाविधि सर्वशीर्षमुण्डनं वेदिकरणं चतुष्किकाकरणं जिनप्रतिमास्थापनं पूर्ववत् । ततो गृह्यगुरुर्जिनस्याष्टप्रकारां पूजां कुर्यात् । चतुर्दिक्षु शक्रस्तवपाठश्च । ततो गुरुरासने उपविशेत् । शिष्यः समवसरणं गुरुं च प्रदक्षिणीकृत्य परिधृतश्वतनिवसनोत्तरासङ्गो 'नमोऽस्तु २ कथयन् गुरुं प्रणम्य योजितकर ऊर्वीभूय विज्ञपयेत्"भगवन् प्राप्तमनुष्यजन्मार्यदेशार्यकुलस्य मम बोधिरूपां जिनाज्ञां देहि।" गुरुः कथयति, ददामि ।' शिष्यः पुनः प्रणम्य कथयति, "न योग्योऽहमुपनयनस्य तजिनाज्ञां देहि ।” गुरुः कथयति, 'ददामि। ततो द्वादशगर्भतन्तुरूपं कार्पासं वा कौशेयं वा उत्तरीयकं जिनोपवोतदीर्घ परमेष्ठिमंत्रभणनपूर्व जिनोपवीतवत्परिधापयेत् । ततो गुरुः पूर्वाभिमुखस्य शिप्यस्य चैत्यवन्दनं कारयेत् । ततः शिष्यः 'नमोऽस्तु' २ भणन् सुखोपविष्टस्य गुरोः पादयोर्निपत्य पुनरप्यूर्टीभूतो बद्धाञ्जलिरिति कथयेत्, “भगवन् उत्तरीयकन्यासेन जिनाज्ञामारोपितोऽहं ।” गुरुः कथयति, “सम्यगारोपितोऽसि तर भवसागरं ।” ततो गुरुरग्रत उपविष्टस्य शूद्रस्य ॥२८ Jain Education in IDHI For Private & Personal Use Only D ainelibrary.org II
SR No.600003
Book TitleAchar Dinkar
Original Sutra AuthorVardhmansuri
Author
PublisherJaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
Publication Year1981
Total Pages566
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy