________________
आचारदिनकर
विभागः उपनयन
॥७॥ रणे शत्रुसमाकीर्णे धार्यो वीर्यरसो हृदि । युद्धे मृत्युभयं नैव विधेयं सर्वथापि हि ॥ ८ ॥ गोब्राह्मणार्थे देवार्थे गुरुमित्रार्थ एव च । स्वदेशभङ्गे युद्धेऽत्र सोढव्यो मृत्युरप्यलम् ॥९॥ ब्राह्मणक्षात्रयोर्वैव क्रियाभेदोऽस्ति कश्चन । विहायान्यनतानुक्षाविद्यावृत्तिप्रतिग्रहान् ॥१०॥ दुष्टनिग्रहणं युक्तं लोभं भूमिप्रतापयोः। ब्राह्मणव्यतिरिक्तं च क्षत्रियो दानमाचरेत् ॥११॥” इति क्षत्रियत्रतादेशः॥॥ अथ वैश्यव्रतादेशः"त्रिकालमहत्पूजा च सप्तवेलं जिनस्तवः । परमेष्ठिस्मृतिश्चैव निर्ग्रन्थगुमसेवनम् ॥ १॥ आवश्यक द्विकालं च द्वादशव्रतपालनम् । तपोविधिहस्था) धर्मश्रवणमुत्तमम् ॥२॥ परनिन्दावर्जनं च सर्वत्राप्युचितक्रमः। वाणिज्यपाशुपाल्याभ्यां कर्षणेनोपजीवनम् ॥३॥ सम्यक्त्वस्यापरित्यागः प्राणनाशेऽपि सर्वथा। दानं मुनिभ्य आहारपात्राच्छादनसद्मनाम् ॥४॥ कर्मादानविनिर्मुक्त वाणिज्यं सर्वमुत्तमम् । उपनीतेन वैश्येन | कर्तव्यमिति यत्नतः ॥६॥” इति वैश्यव्रतादेशः॥॥अथ चातुर्वर्ण्यस्य समानो व्रतादेशः-"निजपूज्यगुरु| प्रोक्तं देवधर्मादिपालनम् । देवार्चनं साधुपूजा प्रणामो विप्रलिङ्गिषु ॥१॥ धनार्जनं च न्यायेन परनिन्दाविवर्जनम् । अवर्णवादोन क्वापि राजादिषु विशेषतः ॥२॥ स्वसत्त्वस्यापरित्यागो दानं वित्तानुसारतः । आयोचितो व्ययश्चैव यथाकाले च भोजनम् ॥३॥ न वासोऽल्पजले देशे नदीगुरुविवर्जिते । न विश्वासो
१ यत्कर्मबन्धने निमित्तं न भवति तादृशं वाणिज्यं सर्वमेवोत्तममिति तात्पर्यम् , वस्तुतस्तु तादृशं तन्न संभवतीति धर्मशास्त्रनियममनुरुध्य सर्वविधं तदुत्तममिति तदाकूतम् ।
Jain Education in de
For Private & Personal Use Only
Mainelibrary.org