________________
CARRRRRRRRRRORS
वर्जनम् । कषायविषयत्यागं विदध्याः शोकभागपि ॥७॥प्रायः क्षत्रियवैश्यानां न भोक्तव्यं गृहे त्वया । ब्राह्मणानामाहतानां भोजनं युज्यते गृहे ॥८॥स्वज्ञातेरपि मिथ्यात्ववासितस्य विलासिनः । न भोक्तव्यं गृहे प्रायः स्वयंपाकेन भोजनम् ॥९॥ आमान्नमपि नीचानां न ग्राह्य दानमञ्जसा । भ्रमता नगरे प्रायः | कायस्पर्शी न केनचित् ॥१०॥ उपवीतं स्वर्णमुद्रांनान्तरीयमपि त्यजेः । कारणान्तरमुत्सज्य नोष्णीषं शिरसि व्यधाः ॥११॥ धर्मोपदेशः प्रायेण दातव्यः सर्वदेहिनाम् । व्रतारोपं परित्यज्य संस्कारान् गृहमेधिनाम् ॥१२॥ निर्ग्रन्थगुर्वनुज्ञातः कुर्यात्पञ्चदशाापि हि । शान्तिक पौष्टिकं चैव प्रतिष्ठामहदादिषु ॥१३॥ निम्रन्थानुज्ञया कुर्यात्प्रत्याख्यानं च कारयः। धार्य च दृढसम्यक्त्वं मिथ्याशास्त्रं विवर्जयेत् ॥ १४॥ नानार्यदेशे गन्तव्यं त्रिशुद्धया शौचमाचरेः । पालनीयस्त्वया वत्स व्रतादेशो भवावधिः॥१५॥” इति ब्रह्मणव्रतादेशः॥ अध क्षत्रियव्रतादेशः। “परमेष्ठिमहामन्त्रः स्मरणीयो निरन्तरम् । शकस्तवैस्त्रिकालं च वन्दनीया निनेश्वराः ॥१॥ मद्यं मांसं मधु तथा सन्धानोदुंबरादि च । निशि भोजनमेतानि वर्जयेदतियत्नतः ॥२॥ दुष्टनिग्रहयुद्धादि वर्जयित्वा च योगिनाम् । न विधेयः स्थूलमृषावादस्त्यक्तव्य एव च ॥३॥ परनारी परधनं त्यजेदन्यविकत्थनम् । युक्त्या साधूपासनं च द्वादशव्रतपालनम् ॥ ४॥ विक्रमस्याविरोधेन विधेयं जिनपूजनम् । धारणं च प्रयत्नेन सोपवीतान्तरीययोः ॥५॥ लिङ्गिनामन्यविमाणामन्यदेवालयेष्वपि । प्रणामदानपूजादि विधेयं व्यवहारतः ॥६॥ सांसारिकं सर्वकर्म धर्मकर्मापि कारयेत् । जैनविप्रैश्च निर्ग्रन्थैदृढसम्यक्त्ववासनः
आ. दि.५
Jain Ed. 1
Interme
For Private & Personal Use Only