________________
आचार
दिनकरः
॥ २४ ॥
Jain Education In
नवब्रह्मगुप्तगर्भ रत्नत्रयं समादिश ।" गुरुः कथयति, "आदिशामि ।" पुनः शिष्यः कथयति, "नवब्रह्मगुप्तगर्भ रत्नत्रयं ममादिष्टं ?" गुरुः कथयति, “आदिष्टं" । पुनर्न० मम समादिष्टं । गुरु कथयति, 'समादिष्टं ॥ पुनः शिष्यः कथयति नव० 'अनुजानीहि ' गुरु कथयति, 'अनुजानामि' पुनः नव० 'ममानुज्ञातं' गुरुः कथयति, 'अनुज्ञातं ' । पुनर्न० नव० 'मया स्वयं करणीयं' । गुरुः कथयति, 'करणीयं' पुनर्न० नव 'मया अन्यैः कारयिasi' | गुरुः कथयति, ' कारयितव्यं' । पुनर्न० नव० 'कुर्वन्तोऽन्ये मया अनुज्ञातव्याः गुरुः कथयति, अनुज्ञातव्याः' । क्षत्रियस्येदमन्तरं, "भगवन्, अहं क्षत्रियो जातः । आदेशसमादेशौ कथनीयौ अनुज्ञा न कथनीया । करणकारणे न कर्त्तव्ये कारयितव्यमिति कथनीयं । वैश्यस्य आदेश एव कथनीयः न समादेशानुज्ञे । कर्त्तव्यमेव कथनीयं न कारयितव्यानुज्ञातव्ये । तत उपनीतो योजितकरः कथयति, “भगवन् आदिश्यतां व्रतादेशः गुरुरादिशति, ब्राह्मणं प्रति व्रतादेशो यथा - "परमेष्ठिमहामन्त्रो विधेयो हृदये सदा । निर्यन्यानां मुनीन्द्राणां कार्य नित्यमुपासनत् ॥ १ ॥ त्रिकालमे हत्पूजा व सामायिकमपि त्रिधा । शक्रस्तवैः सप्तवेलं वन्दनीया जिनोत्तमाः ॥ २ ॥ त्रिकालमेककालं वा स्नानं पूतजलैरपि । मद्यं मांसं तथा क्षौद्रं तथोदुंबरपञ्चकम् ॥ ३॥ आमगोरससंपृक्तं द्विदलं पुष्पितौदनम् । सन्धानमपि संसक्तं तथा वै निशिभोजनम् ॥ ४ ॥ शूद्रान्नं नैव नैवेद्यं नाश्नीयान्मरणेऽपि हि । प्रजार्थं गृहवासेऽपि संभोगो न तु कामतः ॥ ५ ॥ आर्यवेदचतुष्कं च पठनीयं यथाविधि । कर्षणं पाशुपाल्यं च सेवावृत्तिं विवर्जयेत् ॥ ६ ॥ सत्यं वचः प्राणिरक्षामन्यस्त्रीधन
For Private & Personal Use Only
विभागः १ उपनयन.
॥ २४ ॥
jainelibrary.org.