SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ तादीनि तद्देहे तथैव संस्थाप्य तदुपरि कृष्णसाराजिनं वा वृक्षवल्कलं वस्त्रं वा परिधापयेत् । तत्करे च पालाशदण्डं दद्यात् । इति मंत्र च पठेत्--"ॐ अहं ब्रह्मचार्यसि, ब्रह्मचारिवेषोऽसि, अवधिब्रह्मचर्योऽसि, धृतब्रह्मचर्योऽसि, वृताजिनदण्डोऽसि, बुद्धोऽसि, प्रबुद्धोऽसि, धृतसम्यक्त्वोऽसि, दृढसम्यक्त्वोऽसि, पुमानसि, सर्वपूज्योऽसि, तदवधि ब्रह्मत्रतं आगुरुनिर्देशं धारयेः अर्ह ॐ।" इति पठित्वा व्याघ्रचर्ममये आसने कल्पितकाष्ठमयासने वा उपनीतं निवेशयेत् । तस्य दक्षिणकरप्रदेशिघ्यां सदी काञ्चनमी पञ्चगुञ्जामितषोडशमाषकतुलितां पवित्रिकां मुद्रिका परिधापयेत् । पचित्रिकापरिधापनमंत्रो यथा-"पवित्रं दुर्लभं लोके सुरासुरान्वल्लभम् । सुवर्ण हन्ति पापानि मालिन्यं च न संशयः॥१॥" तत उपनीतश्चतुर्विध मुखेन पञ्चपरमेष्ठिमंत्र पठन् गन्धपुष्पाक्षतधूपदीपनवेजिनप्रतिमा पूजयेत् । ततो जिनमतिमा प्रदक्षिणीकृत्य गुरूं च प्रदक्षिणीकृत्य 'नमोऽस्तु २' भणन् योजितकर इति वदति, “भगवन् ! उपनीतोऽहं,” गुरुः कथयति, "सुष्टुपनीतो भव" पुनरुपनीतो 'नमोऽस्तु' २ वदन प्रगस्य वदति, "कृतो मे व्रतबन्धः” गुरुः कथयति, सुकृतोऽस्तु" पुनः 'नमोऽस्तु २ इति वदन् प्रणम्य शिष्यः कथयति, "भगवन् जातो मे व्रतबन्धः" गुरुः कथयति, 'सुजातोऽस्तु' पुनर्नमस्कृत्य शिष्यः कथयति, "जातोऽहं ब्राह्मणः क्षत्रियो वा वैश्यो वा?" गुरुः कथयति, "दृढवतो भव, दृढसम्यक्त्वो भव ।" पुनः शिष्यो नमस्कृत्य कथयति, "भगवन् , यदि त्वया ब्राह्मणोऽहं तदादिश कृत्यं ।” गुरुः कथयति, "अर्हद्गिरा आदिशामि।" पुनर्नमकृत्य शिष्यः कथयति, "ब्रह्मन् , स्तु २३व्यः कयो नमः Jain Educati o nal For Private & Personal Use Only T ww.jainelibrary.org
SR No.600003
Book TitleAchar Dinkar
Original Sutra AuthorVardhmansuri
Author
PublisherJaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
Publication Year1981
Total Pages566
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy