________________
"ॐ अहं नवब्रह्मगुप्तीः स्वकरणकारणानुमतीर्धारयेस्तदनन्तरमक्षय्यमस्तु ते त्रतं स्वपरतरणतारणसमर्थो भव अहं ॐ"क्षत्रियस्य पुनः-“करणकारणाभ्यां धारयः स्वस्य तरणसमर्थो भव।" वैश्यस्य पुनः-“करणेन | धारयेः स्वस्य तरणसमर्थो गव ।” शेषं पूर्ववत् । इति वेदमंत्रेण पञ्चपरमेष्ठिमंत्रं भणन् उपनेयस्य कण्ठे जिनोपवीतं स्थापयेत् । तत उपनेयस्त्रिःप्रदक्षिणीकृत्य “नमास्तु २" कथयन् गुरुं प्रणमति । गुरुरपि निस्तारपारगो भवेत्याशीर्वादयेत् । ततो गृह्यगुरुः पूर्वाभिमुखो जिनप्रतिमाग्रे शिष्यं वामपाचे निवेश्य सर्वजगत्सारं महागमक्षीरोदधिनवनीतं सर्ववाञ्छितदायकंकल्पद्रुकामधेनुचिन्तामणितिरस्कारहेतुं निमेषमात्रस्मरणप्रदत्तमोक्षं पञ्चपरमेष्ठिमंत्रं गन्धपुष्पपूजिते दक्षिणकर्णे त्रिः श्रावयेत् । ततस्त्रिस्तन्मुखेनैनमुच्चारयेत् । यथा-"नमो अरिहंताणं नमो सिद्धाणं नमो आयरियाणं नमो उवज्झायाणं नमो लोएसव्वसाहणं ।" तस्य मंत्रप्रभावं श्रावयेत् । तद्यथा-"सोलससु अक्खरेसु इकिकं अक्खरं जगुनो। भवसयसहस्समणो जम्मिठिओ पंचनवकारो॥॥धंभेइ जलं जलणं चिंतिअमित्तोअ पंचनवकारो। अरिमारिचोरराउलघोरुवसग्गं पणासेई ॥२॥ एकत्र पञ्चगुरुमंत्रपदाक्षराणि विश्वत्रयं पुनरनन्तगुणं परत्र । यो धारयेत्किल कुलानुगतं ततोऽपि वन्दे महागुरुतरं परमेष्ठिमंत्रम् ॥३॥ ये केचनापि सुषमाद्यरका अनन्ता, उत्सर्पिणीप्रभृतयः प्रययुर्विवर्ताः। तेष्वप्ययं परतरः प्रथितः पुरापि लब्ध्वैनमेव हि गताः शिवमत्र लोकाः॥४॥ जग्मुर्जिनास्तदपवर्गपदं यदैव विश्वं | वराकमिदमत्र कथं विनाऽस्मात् । एतद्विलोक्य भुवनोधरणांय धीरैमैत्रात्मकं निजवपुर्निहितं तदात्र ॥५॥
Jan Educational bal
For Private & Personal Use Only
N
w.jainelibrary.org