________________
आचारदिनकरः
विभागः१ उपनयन.
॥२२॥
यद्वोऽसि, कर्माष्टकप्रकृतिस्थितिरसप्रदेशैर्बद्धोऽसि, तन्मोचयति त्वां भगवतोऽहंतःप्रवचनचेतना, तद बुध्यस्व मा मुहः, मुच्यतां तव कर्मबन्धनमनेन मेखलाबन्धेन अहं ॐ।” इति पठित्वा उपनेयस्य कटौ नवगुणां मेखलां बनीयात् । तत उपनेयः “ॐ नमोऽस्तु"२ इति कथयन् गृह्यगुरोः पादयोनिपतति । मेखलाया एकाशीतिहस्तत्वं विप्रस्थैकाशीतितन्तुगर्भजिनोपवीतसूचनाय, क्षत्रियस्य चतुःपश्चाशत्करत्वात्तावत्तन्तुगर्भजिनोपवीतसूचनाय । नवगुणवन्धना विप्रस्य, षइगुणबन्धना क्षत्रियस्य, त्रिगुणबन्धना वैश्यस्य तथा । मौञ्जीकौपीनजिनोपवीतानां पूजनं, गीतादिमङ्गलं, निशाजागरणं तत्पूर्वदिनस्य निशि कार्य। ततः पुनगृह्यगुरुः उपनेयवितस्तिपृथुलं त्रिवितस्तिदीर्घ कौपीनं करदये निधाय-"ॐ अहं आत्मन् देहिन मतिज्ञानावरणेन, श्रुतज्ञानावरणेन, अवधिज्ञानावरणेन, मनःपर्यायावरणेन, केवलज्ञानावरणेन, इन्द्रियावरणेन, चित्तावरणेन आवृतोऽसि तन्मुच्यतां तवावरणमनेनाचरणेन अहं ॐ॥” इति वेदमंत्रं पठन् उपनेयस्य अन्तः कक्षं कौपीनं परिधापयेत् । तत उपनेयो “नमोऽस्तु"२ वदन् पुनरपि गृह्यगुरोः पादयोनिपतेत् । ततस्त्रिस्त्रिः प्रदक्षिणीकृत्य चतुदिक्षु शकस्तवपाठः। ततो लग्नवेलायां जातायां गुरुः पूर्वोक्तं जिनोपवीतं स्वकरे निदध्यात् । तत उपनेयः पुनरूज़ स्थितः करौ संयोज्य इति वदेत्-"भगवन् वर्णोज्झितोऽस्मि, ज्ञानोज्झितोऽस्मि, क्रियोज्झितोऽस्मि, तजिनोपवीतदानेन मां वर्णज्ञानक्रियासु समारोपय" इत्युक्त्वा "नमोऽस्तु" २ कथयन् गृह्यगुरुपादयोनिपतेत् । गुरुः पुनः पूर्वेणोत्थापनमन्त्रेण तमुत्थाप्यो/कुर्यात् । ततो गुरुदक्षिणकरतलवृतजिनोपवीतः
RECTORRECECAREERPRESS
॥२२॥
Jain Educatio
n
al
For Private & Personal Use Only
wि .jainelibrary.org