________________
SUSHMIRRORSCORRESSESSAGE
मंत्रेण कुशाग्रैरभिषिञ्चेत् । ततः परमेष्ठिमंत्रं पठित्वा"नमोऽहत्सिद्धाचार्योपाध्यायसर्वसाधुभ्यः" इति कथयित्वा जिनप्रतिमा पूर्वाभिमुखमुपनेयं निवेशयेत् । ततो गृह्यगुरुश्चन्दनमंत्रेणाभिममंत्रयेत् । चन्दनमंत्रो यथा -"ॐ नमो भगवते, चन्द्रप्रभजिनेन्द्राय, शशाङ्कहारगोक्षीरधवलाय, अनन्तगुणाय, निर्मलगुणाय, भव्यजनप्रबोधनाय, अष्टकर्ममूलप्रकृतिसंशोधनाय, केवलालोकविलोकितसकललोकाय, जन्मजरामरणविनाशकाय, सुमङ्गलाय, कृतमङ्गलाय, प्रसीद भगवन् इह चन्दननामामृताश्रवणं कुरु कुरु स्वाहा ।” अनेन मंत्रेण चन्दनमभिमंत्र्य हृदि जिनोपवीतरूपां, कटौ मेखलारूपां, ललाटे तिलकरूपां रेखां कुर्यात् । तत उपनेयो गुरोः पादयोः “नमोऽस्तु" २ इति भणन्निपत्य ऊर्वीभूतः कृताञ्जलिरिति वदेत्-"भगवन् ! वर्णरहितोऽम्मि, आचाररहितोऽस्मि, मंत्ररहितोऽस्मि, गुणरहितोऽस्मि, धर्मरहितोऽस्मि, शौचरहितोऽस्मि, ब्रह्मरहितोऽस्मि । देवर्षिपित्रतिथिकर्मसु नियोजय मां । पृनः “नमोऽस्तु"२ वदन गुरोः पादयोः निपतति। गुरुरपि इति मंत्रं पठन् उपनेयं शिखायां धृत्वा ऊव कुर्यात्-"ॐ अहं देहिनिमग्नोऽसि भवार्णवे तत्कर्षति त्वां भगवतोऽहंतःप्रवचनैकदेशरज्जुना गुरुस्तदुत्तिष्ठ प्रवचनादादाय श्रद्दधाहि अहं ॐ।” इति उपनेयमुत्थाप्य अर्हतः प्रतिमाएरः पूर्वाभिमुखमू/कुर्यात् । ततो गृह्यगुरुः त्रितन्तुतितां एकाशीतिकरप्रमाणां मुञ्जमेखलां स्वकरद्वये निधाय अमुं वेदमंत्रं पठेत्-"ॐ अहं आत्मन् देहिन ज्ञानावरणेन बद्धोऽसि, दर्शनावरणेन बद्धोऽसि, वेदनीयेन बद्धोऽसि, मोहनीयेन बद्धोऽसि, आयुषा बद्धोऽसि, नाम्ना बद्धोऽसि, गोत्रेण बद्धोऽसि, अन्तरायण
Jain Education
a
l
For Private & Personal Use Only
D
.jainelibrary.org