SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ आचारः दिनकरः ॥ २१ ॥ परिघानं कृतवस्त्रोत्तरासङ्ग अक्षतनालिकेर क्रमुक हस्तं त्रिः प्रदक्षिणां कारयेत् । ततौ गुरुरूपनेयं वामपार्श्व संस्थाप्य पश्चिमाभिमुख बिंबसम्मुखमुपविश्य शक्रस्तवं प्रथमात्स्तोत्रयुक्तं पठेत् । पुनस्त्रिः प्रदक्षिणीकृत्य उत्तराभिमुखो जिनबिंबाभिमुखस्तथैव शक्रस्तवं पठेत् । एवं त्रिः प्रदक्षिणान्तरितं पूर्वाभिमुख दक्षिणाभिमुखजिनबिंबेपि शक्रस्तवं पठेत् । मङ्गलगीतवादित्रादि तत्र बहु विस्तारणीयं । ततस्तत्राचार्योपाध्यायसाधुसाध्वीश्रावक श्राविकारूपं श्रीश्रमणसङ्कं सङ्घट्टयेत् । ततः प्रदक्षिणा शक्रस्तवपाठादनन्तरं गृह्यगुरुरूपनयनप्रारंभहेतुं वेदमुच्चरेत् । उपनेयस्तु दूर्वाफलपरिपूर्णकर ऊर्ध्वस्थितो जिनाग्रे कृताञ्जलिः शृणुयात् । उपनयनारंभवेदमन्त्रो यथा – “ ॐ अहं अर्हदभ्यो नमः, दर्शनाय नमः, चारित्राय नमः, संयमाय नमः, सत्याय नमः, शौचाय नमः, ब्रह्मचर्याय नमः, आकिञ्चन्याय नमः, तपसे नमः, शमाय नमः, मार्दवाय नमः, आर्ज वाय नमः, मुक्तये नमः, धर्माय नमः, सङ्घाय नमः, सैद्धांतिकेभ्यों नमः, धर्मोपदेशकेभ्यो नमः, वादिलब्धिभ्यो नमः, अष्टाङ्गनिमित्तज्ञेभ्यो नमः, तपस्विभ्यो नमः, विद्याधरेभ्यों नमः, इह लोकसिद्धेभ्यो नमः, कविभ्यो नमः, लब्धिमभ्यो नमः, ब्रह्मचारिभ्यो नमः, निष्परिग्रहेभ्यो नमः, दयालुभ्यो नमः, सत्यवादिभ्यो नमः, निःस्पृहेभ्यो नमः, एतेभ्यो नमस्कृत्यायं प्राणी प्राप्तमनुष्यजन्मा प्रविशति वर्णक्रमं अर्ह ॐ ॥” इति वेदोबारं विधाय पुनरपि पूर्ववत् त्रिः प्रदक्षिणीकृत्य चतुर्दिक्षु शक्रस्तवपाठ सयुगादिदेवस्तवं कुर्यात् । तद्दिने उपनेयस्य जलयवान्न भोजने नाचाम्लप्रत्याख्यानं कारयेत् । ततश्च उपनेयं वामपार्श्वे संस्थाप्य सर्वतीर्थोदकैः अमृता Jain Education onal For Private & Personal Use Only विभागः १ उपनयन. ॥२१॥ www.jainelibrary.org
SR No.600003
Book TitleAchar Dinkar
Original Sutra AuthorVardhmansuri
Author
PublisherJaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
Publication Year1981
Total Pages566
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy