________________
Jain Education
यतीनां हि निर्ग्रन्थानां सर्वबाह्याभ्यन्तरकर्मविमुक्तानां नवब्रह्मगुप्सिगुप्ता ज्ञानदर्शनचारित्ररत्नमयी हद्रतैव । सद्भावनाभाविता हि सर्वदा मुनयो न बहिः सूत्ररूपां नवब्रह्मगुतियुतां रत्नमयीं वहन्ति तन्मयत्वात् । न समुद्रो जलपात्रं करे करोति । न सूर्यो दीपं विभति । यत उक्तं - " अग्नौ देवोऽस्ति विप्राणां हृदि देवोऽस्ति योगिनाम् । प्रतिमास्वल्पबुद्धीनां सर्वत्र विदितात्मनाम् ॥ १ ॥" अतः शिखासूत्रविवर्जिता यतयः ब्रह्मगुप्तरत्नत्रयकरणकारणानुमतिषु सदैवादृताः । गृहिणः पुनर्ब्रह्मगुप्तरत्नत्रये लेशश्रवणस्मरणमात्रधृते ब्रह्मगुप्तीरत्नत्रयं च सूत्रमुद्रया हृदि वहन्ति । " प्रतिमास्वल्पबुद्धीनां" इति वचनाद अतदात्मकत्वे मुद्राधारणं । यथा छद्मस्थस्य बाह्याभ्यन्तरतपः कर्म तथा नवतन्तुगर्भत्रिसूत्रमयमेकमग्रम् । एवमग्रत्रयं विप्रस्य, अग्रद्वयं क्षत्रियस्य, अग्रमेकं वैश्यस्य, उत्तरीयकं शूद्रस्य, उत्तरासङ्गानुज्ञा परेषां । कथमीदृशो विशेषः ? तदुच्यते ब्राह्मणैनब्रह्मसियुतं ज्ञानदर्शनचारित्ररूपं रत्नत्रयं स्वयं करणीयं परैः कारणीयं परेषामनुज्ञातव्यं च ब्रह्मगुप्तगुप्ता इति ब्राह्मणाः स्वयं रत्नत्रयीमध्ययनसम्यग्दर्शनचारित्रक्रियाभिराचरन्ति । परैरध्यापनसम्यक्त्वोपदेशाचारप्ररूपणैः कारयन्ति । परांश्च ज्ञानोपासन सम्यग्दर्शन धर्मोपासनाभिः श्रद्दधानात् अनुज्ञां याचमानान् अनुजानन्ति । अतो नवब्रह्मगुप्तगर्भरत्नरत्नत्रयकरणकारणानुमतिभाजां ब्राह्मणानां जिनोपवीतेऽग्रत्रयं, क्षत्रियाणां च रत्नत्रयस्य स्वयमाचरणे निजशक्त्त्या नयप्रवृत्त्या परैरत्नत्रयस्याचरणकारणं न तेषामनुज्ञादानं युज्यते । ते हि प्रभुत्वशालिनो न परेषु नियमाद्यनुजानन्ति । अतः क्षत्रियाणां जिनोपवीतं द्यग्रं । वैश्यैज्ञ
For Private & Personal Use Only
w.jainelibrary.org