________________
भाचारदेनकरः
AEERA
२६९॥
SASRA SHARRARIES
दशविधं भावदोषपणां शोधनं मतम् । तथा पञ्चविधं ब्रमो द्रव्यदोषविशोधनम् ॥५॥ स्नानाई १ करणीयाई २ तपोहं ३ दानयोग्यकम् ४ । विशोधनार्ह ५ पञ्चेत्थं प्रायश्चित्तानि बाह्यतः॥६॥ सर्ववासांसि धावित्वा स्नात्वा नखशिखान्तकम् । आचम्य पञ्चगव्यादीन्देवस्नानोदकानि च ॥७॥ तथैव तीर्थनीराणि गुरुपादोदकानि च । यस्मात्संजायते शुद्धिस्तत्स्नानाहमुदाहृतम् ॥ ८॥ इति स्नानाविधिः॥ ॥ शान्तिकैः पौष्टिकैश्चैव तीर्थाभिगमनैरपि । गुरुदेवार्चनैश्चैव संघपूजादिकर्मभिः ॥९॥ मौनादिभिस्तथाचारैः शुद्धिर्यस्माप्रजायते । तदुक्तं करणीयाई प्रायश्चित्तं विचक्षणैः ॥ १० ॥ एकभक्तै रसत्यागैः फलैकान्नादिभोजनैः । यस्माच्छुद्धिस्तदाख्यातं तपोहं द्रव्यशोधनम् ॥ ११॥ देवादौ पुस्तकादौ च व्ययमाधाय साधुषु । यस्माच्छुद्धिस्तदाख्यातं दानाई बाधशोधनम् ॥ १२॥ विशोधनामथ ब्रूमो विस्तरेण निशम्यताम् । वमनं व्यहमाधाय विरेकं च व्यहं वदेत् ॥ १३॥ वमने लङ्घनं प्राहुविरेके यवचर्वणम् । ततश्चैव हि सप्ताहं भूमौ निक्षिप्य चोपरि ॥ १४ ॥ ज्वलनज्वालनं कुर्यात्काष्ठरोदुम्बरैरपि । ततः पुनश्च सप्ताहं भूमौ निक्षिप्य चोपरि ॥ १५ ॥ गावं वृषं च संयोज्य कुर्वीत हलवाहनम् । ज्वलनज्वालने चैव तथा च हलवाहने ॥१६॥ कुर्याचतुर्दशाहानि मुष्टिमात्रयवाशनम् । ततः शिरसि कूर्च च कारयेदपि मुण्डनम् ॥१७॥ सप्ताहं च ततः स्नात्रं पञ्चगव्येन चा-8 चरेत् । तत्रापि गव्यक्षीरेण प्राणाधारो न चान्यथा ॥१८॥ पञ्चाहं पञ्चगव्यं च त्रिस्त्रिश्चुलुभिराचमेत् । वि. धाय मुण्डनं तस्मात्तीर्थोदकसमुच्चयः ॥ १९ ।। अष्टोत्तरशतेनैव घटानां स्नापयेच तम् । तथा शुद्धो देवगुरुन्न
%CE
॥२६९॥
Jain Education C
onal
For Private & Personal Use Only
www.jainelibrary.org