SearchBrowseAboutContactDonate
Page Preview
Page 560
Loading...
Download File
Download File
Page Text
________________ १३५ नत्वान्यव्रतिनं चैव शुद्धिः स्याजिनपूजने || २२ || बलात्कारकृते सर्वव्रतभङ्गे महात्मनाम् । गृहिणां शुद्धये ग्राह्यं शोधनं देयमुत्तमम् ॥ २३ ॥ श्राविकायाः प्रसूतौ च शुद्धयेऽन्तिममादिशेत् । सजीवेन्धन नीरादितापने ग्राह्यमेव हि ||२४|| साधुशुश्रूषणे चैव देहस्पर्शादिना कृते । विशुद्धये सुन्दरं स्याच्छुश्रूषान्तेऽपि योषिताम् ||२५|| व्रतिनां व्रतिनीनां च प्रायश्चित्तं समं यथा । श्रावकाणां श्राविकाणां तथैव हि विनिर्दिशेत् ॥ २६ ॥ एवं महानिशीथं च निशीथं चरणोदधिम् । जीतकल्पद्वयं दृष्ट्वा प्रायश्चित्ते विधिः स्मृतः ॥ २७ ॥ अन्यान्यपि हि शास्त्राणि प्रायश्चित्तानुगानि च । विलोक्य शुद्धये प्रोक्तः प्रायश्चित्तविधिः परः ॥ २८ ॥ व्रतभङ्गे तु सूक्ष्माणां पापानामतिचारजम् । विलोक्य शास्त्रं मुनयः प्रायश्चित्तं वितन्वते ॥ २९ ॥ जिना जानन्ति तवं च मोहात्स्वमतिगौरवात् । उक्तं हीनाधिकं तत्र मिथ्यादुः कृतमस्तु मे ॥ ३० ॥ इयत्ता नैव विहिता प्रायश्चित्तविधेः क्वचित् । यन्नोक्तमत्र तज्ज्ञेयं जिनागममहोदधेः ॥ ३१ ॥” इति प्रायश्चित्ताधिकारे प्रकीर्णप्रायश्वितं भावप्रायश्चित्तं च संपूर्णम् ॥ अथ नानाप्रायश्चित्तम् । सर्वपातकशुद्धयर्थ भावशोधनमीरितम् । अधुना तु बहिर्लेपशुद्धथै द्रव्यत उच्यते ॥ १ ॥ पञ्चधा स्याद्बहिर्लेप आचाराज्ञैरुदाहृतः । स्पर्शात् १ कृत्यात् २ भोजनाच ३ दुर्नयात् ३ ज्ञातिमिश्रणात् ५ ॥ २ ॥ स्पर्शाचण्डालशुन्यादेः कृत्याददुः कर्मचेष्टितात् । भोजनाद्दृषिताहाराददुर्नयान्निन्दनादिकात् ||३|| विमिश्रणादन्यज्ञात्या विवाहात्सहभोजनात् । एवं पश्चविधस्यापि शोधनं कथ्यते परम् ||४|| यथा For Private & Personal Use Only rnational www.jainelibrary.org
SR No.600003
Book TitleAchar Dinkar
Original Sutra AuthorVardhmansuri
Author
PublisherJaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
Publication Year1981
Total Pages566
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy