________________
आचारदिनकरः
॥२६५॥
ज्ञानस्य च सुभोजनम् ॥ २॥ पाठव्याख्यानयोर्विघ्नकरणे पाद इष्यते । पातने पुस्तकादीनां कक्षाया धारणे तथा ॥३॥ दुर्गन्धहस्तोबहने पादनिष्पूतघटने । एषु प्रत्येकमाख्येयं शोधनं धातुहृत्परम् ॥ ४ ॥ जघन्याशातनायां तु ज्ञानस्यैव विलम्बकः । मध्यायां परमश्चैव प्रकृष्टायां द्विपादकम् ॥५॥ केचित्र गुरुं प्राइविशेषादागमस्य च । आशातनायामाचाम्लं तत्सूत्रस्य पुनर्गुरुः ॥६॥ तथा च दर्शनाचारे शादिषु च पञ्चसु । देशाक्रान्तेषु प्रत्येकं कामध्नं शुद्धये दिशेत् ॥ ७॥ कृतेषु सर्वतस्तेषु निःपापात्पापशोधनम् । असंयमस्थिरीकामे मिथ्यादृष्टिप्रशंसने ॥ ८॥ पार्श्वस्थादिषु वात्सल्ये देशादेकानमादिशेत् । सर्वतस्तेषु मुक्तं च तथाऽसंयमघोषणे ॥९॥ देशतः प्राहुरेकानं सर्वतो धर्म एव च । यतिप्रवचनश्लाघ्येषु प्रेशस्तोपबृंहणम् ॥१०॥अकृते चैव वात्सल्ये सामर्थेऽप्यप्रभावने । प्रत्येकं देशतो ज्ञेयं शोधनं धातुहृत्परम् ॥११॥ सर्वतश्चाकृतेष्वेषु प्रत्येकं गुरुरिष्यते । अर्हदिबम्बाशातनायाः सामान्यकरणे गुरुः॥१२॥ ततो विशेषादिवम्बस्य पादनिष्पूतमर्शने । धूपपात्रकुम्पिकादिवस्त्रादिलगने लघुः ॥१३॥ अविधेर्माजने शान्तं विलम्बो बिम्बपातने । केचिदाहुःप्रतिमाया जघन्याशातने लघुम् ॥१४॥ मध्यमाशातने शीतमेकानं बहुशातने । अथवा चरणाचारेष्वप्तेजोवायुभूरुहाम् ॥१५॥ स्पर्शने कारणाभावाद्यतिकर्म समादिशेत् । आगाढतापने प्राहुः पितृकालं विशुद्धये ॥१६॥ गाढसंतापने धर्म सजलं तदुपद्रवे । तथा ह्यनन्तकायानां चतुर्दिव्याधारिणाम् ॥ १७॥ संघ पितृकालः स्याच्च
१ प्रशल्य इति पाठः ।
॥२६॥
Jain Education
For Private & Personal Use Only
hw.jainelibrary.org