________________
आ. दि. ४५ Jain Educati
तथैव हि । क्रमात्सजलमुक्तौ च कथितौ शुद्धि हेतवे ।। १३३ ।। संप्राप्ते च तथा पात्रे सूत्रार्थानर्पणे गुरुः । तथा च तपआचारे ग्रन्थियुक्तस्य भञ्जने ॥ १३४ ॥ मन्त्रयुक्तस्य भङ्गे च पौरुषीभङ्ग एव च । अहश्वरमभङ्गे च भङ्गेऽन्यनियमस्य च ॥१३५॥ पानाहारादिभङ्गे च कालस्याप्यप्रतिक्रमे । स्वाध्यायाप्रस्थापने च कायोत्सर्गायनिर्मितौ ॥ १३६ ॥ इर्यापथादिस्थानेषु तत्पथिक्यप्रतिक्रमे। आवश्यके चैव कायोत्सर्गस्याकरणेऽपि च ॥१३७॥ एतेषु सर्वदोषेषु निर्मदः परकीर्तितः । आवश्यके कायोत्सर्गावकृतौ लघुरिष्यते ॥ १३८ ॥ त्रयस्याकरणे शान्त आवश्यकाकृतौ गुरुः । वन्दनेऽप्येवमेव स्यात्प्रायश्चित्तमभेदतः ॥ १३९ ॥ सजीवोदकपाने च सुखं पापविघातनम् । नैषेधिक्यादिकरणे उत्तरासङ्गवर्जने ॥ १४० ॥ दण्डस्याप्रतिलेखे चाप्रमार्जितविमोचने । ग्रहणे माजितस्यापि सर्वोपकरणस्य च ॥ १४१ ॥ उपधेश्वाप्यसन्देशे शयनासनयोरपि । अमार्जने तथा पाण्योर्वसतेरमार्जने ॥ १४२ ॥ तथा कटकपाटादेः पिधानाच्छादयोरपि । विनैव प्रतिलेखेन तथा चोभयकालयोः ॥ १४३ ॥ भाण्डाद्यप्रतिलेखे च संपुटीपट्टयोरपि । नित्यमप्रतिलेखाच्च पादोनप्रहरे तथा ॥ १४४ ॥ पात्राद्यप्रतिलेखे च सर्वेष्वेतेषु निर्मदः । एवं च जीतकल्पस्य व्यवहारेण भाषितम् ॥ १४५ ॥ प्रायश्चित्तं यतेः सर्व श्राद्धानामध कथ्यते । पापप्रणासनं सर्व आलोचनसमुच्चयः ॥ १४६ ॥” इति लघुजीत कल्पविधिना यतिप्रायश्चित्तं संपूर्ण ॥
अथ व्यवहारजीतकल्पक्रमेण यतिश्रावकप्रायश्चित्तविधिः ॥ "ज्ञानाचारे श्रावकाणां प्रायश्चित्तमुदीर्यते । अकालाविनयाद्येषु ज्ञानभङ्गेषु चाष्टसु ॥ १ ॥ प्रत्येकं शुद्धये तेषु प्राणाधार उदीरितः । ज्ञानिनां प्रत्यनीकत्वे
For Private & Personal Use Only
www.jainelibrary.org