________________
आचारदिनकर
॥२६४॥
5-4
४ कृत् । चतुर्विधाहारजे च प्रत्याख्यानेप्यनिर्मिते ॥११७॥ सन्ध्यायां च विभाते च प्रत्याख्यानाद्यनुद्यमे ।
कृतस्यापि हि भङ्गे च पितृकालो विशुद्धिकृत् ॥११८॥ स्थण्डिलाप्रतिलेखे च यतिकर्मविशुद्धये । स्थण्डिलेऽन्यप्रतिलेखिते मलोत्सर्गतो निशि ॥११९॥ गुरुः सर्वपात्रभङ्गे सजलं शोधनं परम् । सूचीनिर्गमने मुक्तं प्राहुः केचित्तथान्तिमम् ॥ १२०॥ कपाटं वा कटं वा प्रतिलिख्योद्धाटनाल्लघु । षट्पदीगाढसंघ प्राणाधारो विशोधनः॥१२१॥ कालस्याप्रतिक्रमणे गोचरस्याप्रतिक्रमे । नैषेधिक्याद्यकरणे यतिकर्म समादिशेत् ॥१२२॥ वीर्यातिचारप्रस्तावे तपाकर्म यथाविधि । पाक्षिकादौ विधेयं हि स्वशक्त्या क्षुल्लकादिभिः ॥१२३॥ तेषामकरणे दोषः प्रायश्चित्तमिहोच्यते । पाक्षिके तपसि भ्रष्टे क्षुल्लकस्य तु निर्मदः ॥१२४॥ यतेर्यतिस्वभावश्च स्थविरस्य विलम्बकः । उपाध्यायस्य कामना आचार्यस्य गुरुः पुनः ॥१२५॥ चतुर्मासतपोभ्रंशे क्षुल्लकस्य विलम्बकः । प्राणाधारस्तु वृद्धस्य भिक्षोः सजलमिष्यते॥१२६॥ उपाध्यायस्य धर्मस्तु तथाचार्यस्य वै सुखम् । सांवत्सरतपोभ्रंशे क्षुल्लकस्य सुभोजनम् ॥१२७॥ स्थविरस्य द्विपादं तु भिक्षोरुत्तम ईरितः । उपाध्यायस्य भद्रं तु तथाचार्यस्य सुन्दरम् ॥१२८॥ ज्ञानातिचारप्रस्तावे प्रायश्चित्तमुदीर्यते । अनागाढेषु योगेषु योगोद्देशे च खण्डिते ॥१२९॥ तथा चाध्ययनस्यापि श्रुतस्कन्धस्य चैव हि । अङ्गस्य चैव क्रमशः प्रायश्चित्तमथोच्यते ॥१३०॥ यतिकर्म च मध्याहं परमं धर्म एव च । अथागाढेषु योगेषु भग्न उद्देशकर्मणि ॥१३१॥ तथाध्ययन- कार्ये च श्रुतस्कन्धे तथाङ्गके । क्रमाद्विलम्बः परमं कामघ्नं सुखमेव च ॥१३२॥ अपात्रस्य सूत्रदाने निर्मथस्य
4 4
4 4 435
२६४॥
Jan Educa
t ional
For Private & Personal Use Only
www.jainelibrary.org