________________
Jain Education
तुः पादपद्रवे । एकस्यापि द्वीन्द्रियस्य विनाशे मुक्त इष्यते ॥ १८ ॥ द्वयोर्विनाशे द्विगुणस्त्रयाणां त्रिगुणः पुनः । यावद्धीन्द्रियघातः स्यात्तत्संख्या गुरवः स्मृताः ॥ १९ ॥ त्र्यक्षाणां चतुरक्षाणां विनाशेप्येवमादिशेत् । असंख्यानां द्वीन्द्रियाणां विनाशे स्यात्तत्सुखद्वयम् ॥ २० ॥ सुखत्रयं त्रीन्द्रियाणां चतुरिन्द्रियदेहिनाम् । असंख्यानां विघाते स्याच्छुद्धिर्भद्रचतुष्टयात् ॥ २१ ॥ पञ्चेन्द्रियाणां संघट्टे शुद्धये स्यात्सुभोजनम् । अगाढतापने शीतं गाढसंतापने गुरु ॥ २२ ॥ प्रमादादेकपञ्चाक्षघाते पुण्यं समादिशेत् । एवं प्रमादात्पञ्चाक्षा यावन्तः स्युविघातिताः ||२३|| तावन्मात्राणि भद्राणि संभवन्ति विशुद्धये । दर्पादेकं च पञ्चाक्षं हत्वा संशुद्धिरन्तिमात् ॥ २४ ॥ एवं दर्पेण यत्संख्याः पञ्चाक्षाः स्युविघातिताः । देयास्तावन्त आदेयाः प्राणिनः शुद्धिहेतवे ॥२५॥ तपोतिचारेऽथ तपः कुर्वतां विघ्ननिर्मितौ । निन्दायां विरसं शुद्धयै नियमे सति सर्वदा ||२६|| प्रत्याख्यानकृतौ धर्मों नियमस्याप्यभावतः । अप्रत्याख्यानतः शुद्धिः श्राद्धस्य विरसं शुभम् ||२७|| पौरुषीमन्त्रतयोः शान्तपूर्वार्धयोरपि । आचाम्लपूतधर्माणां भङ्गे कार्य च तत्पुनः ||२८|| वमनादिवशाद्भङ्गे शान्तं विरसमेव वा । वा ग्रन्थिमुष्टयाभिग्रहादिभङ्गे मध्याह्नमादिशेत् ॥ २९ ॥ दिने दिने लघुप्रत्याख्यानस्याकरणे लघु । मन्त्रयुक्पौरुष ग्रन्थियुतादीनां च भङ्गतः ॥ ३० ॥ कैश्विदष्टोत्तरशतमन्त्रजापो निगद्यते । तथा वीर्यातिचारेऽपि सामध्ये बहुले सति ॥ ३१ ॥ देवार्चनं च स्वाध्यायं तपोदानातिविक्रियाः । कायोत्सर्गावश्यकादेस्तोकत्वकरणे सति ॥ ३२ ॥ प्रत्येकं परमं प्राहुस्तपोज्ञान विभासनम् । मायया कुर्वतो धर्मो द्रव्यात्क्षेत्राच कालतः ॥ ३३ ॥
For Private & Personal Use Only
www.jainelibrary.org