________________
आचारः
दिनकरः
॥ १६ ॥
Jain Education
तनये पित्तगदभाक् शनौ वातव्याधिः कृशशशिनि भिक्षाटनरतः । बुधे ज्ञानी भोगी ह्युशनसि चिरायुः सुरगुरौ विधौ पूर्णे यज्वा भवति च नरः सत्रह इह ॥ ५ ॥ कण्टकान्त्यधनिनस्त्रिकोणगास्तत्फलं ददति यत्तनावमी । षष्ठ इन्दुरशुभस्तथाष्टमः केन्द्रकोणगत ऐनिरन्नहृत् ॥ ६ ॥ ततः षष्ठे मासे बालस्य पञ्चमे मासे बालिकायाः पूर्वोक्तनक्षत्रतिथिवारयोगेषु शिशोश्चन्द्रवले अन्नप्राशनमारभेत । तद्यथा — गुरुः उक्तवेषधारी तद्गृहे गत्वा सर्वाणि देशोत्पन्नान्यन्नानि समाहरेत् । देशोत्पन्नानि नगरप्राप्याणि फलानि च षड् विकृतीः प्रगुणीकुर्यात् । ततः सर्वेषामन्नानां सर्वेषां शाकानां सर्वासां विकृतीनां घृततैलेक्षुर सगोरसजलपा कैर्बहून् परःशतान् पृथक्रप्रकारान् कारयेत् । ततोर्हत्प्रतिमाया बृहत्स्नात्रविधिना पञ्चामृतस्नात्रं कृत्वा पृथक्पात्रे स्थापयेत्। अन्नशाकविकृतिपाकान् जिनप्रतिमाग्रतो नैवेद्यमंत्रेण अर्हत्कल्पोक्तेन ढोकयेत् । फलान्यपि सर्वाणि ढोकयेत् । ततः शिशोः अर्हत्स्नात्रोदकं पाययेत् । पुनरपि तानि सर्वाणि वस्तूनि जिनप्रतिमानैवेद्यो रितानि अमृतश्रवमंत्रेण सूरिमंत्रमध्यगेन श्रीगौतमप्रतिमाग्रे ढौकयेत् । तत उदरितानि कुलदेवतामंत्रेण तद्देवी मंत्रेण गोत्रदेवीप्रतिमाये ढोकयेत् । तत् कुलदेवी नैवेद्यादयोग्याहारं मङ्गलेषु गीयमानेषु माता सुतमुखे दद्यात् । गुरुवामुं वेदमंत्रं पठेत्, “ अर्ह भगवान्नर्हन् त्रिलोकनाथः स्त्रिलोकपूजितः सुधाधारधारितशरीरोऽपि कावलिकाहार माहारितवान् पश्यन्नपि पारणाविधाविक्षुरसपरमान्न भोजनात्परमानन्ददायकं बलं । तदेहिन्नौ१ ऐनिः शनिः । क्रूर ग्रहोपलक्षणमेतत् ।
For Private & Personal Use Only
विभागः १
षष्ठीसं.
॥ १६ ॥
w.jainelibrary.org