________________
संचारादप्रतिक्रमे । मण्डलीवश्चने चैव साधूनाम(भि)निमन्त्रणे ॥३९॥ एतेषु सर्वदोषेषु धर्मः पापविशुद्धिला कृत् । प्राशुकानां च कायस्य भक्षणे लघु शोधनम् ।।७०॥ अधिकां विकृति भुक्त्वा निर्मदेन विशुद्धयति ।
पञ्चेन्द्रियस्यैकस्यापि दर्पण प्रतिघातने ॥ ७१ ॥ आदेय (2) न परं शुद्धिमहापापादुदाहृता । पञ्चेन्द्रियाः पीडिता वा यावन्तः स्युः सजीविताः॥७२॥ तेषु प्रत्येकमाघेय भद्रं पापस्य हानये। पुरुषस्त्रीविघाते च प्रत्येक शुद्धिरन्तिमात् ॥७३॥ मृषावादे तथा स्तेये तथा चैव परिग्रहे । भग्ने जघन्यतः कार्य प्रत्येकं च सुभोजनम् ॥७४॥ मध्यभङ्गे तथैकान्नं मुक्तमुत्कृष्टभङ्गके । दाङ्गों त्रयाणां च शोधने ग्राह्यमिष्यते ॥७५।। स्वप्ने भङ्गे त्रयाणां च कायोत्सर्गा उदाहृताः। चतुःप्रमाणैः प्रत्येकं सचतुर्विंशतिस्तवैः॥७६॥ मैथुनस्य कांक्षणे स्याच्छुद्धिः स्यादुत्तमात्परा । कृते च करसंभोगे सुखं शोधनमुत्तमम् ॥७७॥ तस्मिंश्च बहुधा क्लुप्ते कार्यमादेयमञ्जसा । स्त्रिया चैव तिरश्चा वा षण्ढेन पुरुषेण वा ॥७८॥ मैथुने भाषिते क्लुप्ते प्रत्येक मूलमिष्यते । स्त्रीणां स्तनादिस्पर्शे च विधेयं धातुहृत्परम् ॥७९॥ वस्त्रस्पर्शे च नारीणां यतिधर्ममुदाहरेत् । कैश्चिदष्टोत्तरशतं मन्त्रजाप इह स्मृतः॥८॥ दर्पण ब्रह्मचर्यस्य भङ्गे ग्राह्यमुदाहृतम् । स्वप्नेऽपि व्रत भङ्गेऽत्र कायोत्सर्ग समाचरेत् ।।८१।। समन्त्रयुक्तसंध्यातः सचतुर्विंशतिस्तवम् । लिप्तपात्रस्थापने च शुष्कसन्निधिभोजने ॥८२॥ प्रत्येकमुपवासेन शुद्धिरस्मादुदाहृता । दोरके मुखवस्त्र वा पात्रे तृप्तिकरादिके ॥८३॥ निशि लिप्तस्थिते कार्यमुपवासेन शोधनम् । वैकृते सन्निधौ भुक्ते पुण्यमाहुर्विशोधनम् ॥८४॥ दिवा स्थितं दिवा भुक्तमिति भङ्गचतुष्टयम् । आये
Jan 238
Donal
For Private & Personal Use Only
UMww.jainelibrary.org