________________
आचार
दिनकरः
॥२६३॥
Jain Education
1
भगं सुखं प्रोक्तं शेषभङ्गत्रयेऽष्टमम् ||८६ ॥ शुष्कसन्निधिरक्षायां मध्याह्नः स्याद्विशोधनम् । तस्मिन्नार्द्रे स्थापिते च निःपापात्स्यादपापता ||८६३ || केचिदाहुः शुद्धयेऽत्र पूर्वा मुनिपुङ्गवाः । आधाकर्माशने मुक्तं शान्तं पूत्यशने तथा ॥ ८७॥ आत्मक्रीतपरक्रीत भागे कामघ्नमिष्यते । उद्देशिकाशने शीतं शेषेषु गुरुरिष्यते ॥ ८८ ॥ अचिरस्थापना भोगे निःस्नेहः शोधनं परम् । चिरस्थापन भोगे तु कालातिक्रम उच्यते ॥ ८९ ॥ सुक्ष्मप्राभृतिकाभोगे यतिकर्म विशोधनम् । बादरप्राभृते भुक्ते चतुःपादो विशोधनः ॥ ९० ॥ पृथिव्या रुषिते भुक्ते निर्मदं प्रारादिमाः । हस्ते पादे पङ्कलिप्ते कालातिक्रम इष्यते ॥९१॥ अप्तेजोवायुसंमिश्रभुक्ते सजलमादिशेत् । एभिराम्रक्षिते चैव भुक्ते श्रेष्ठौघघातनः ॥९२॥ परग्रामाहृते भुक्ते स्वीयग्रामाहृते तथा । क्रमादाद्ये च सजल द्वितीये लघु कीर्तितम् ||१३|| प्रत्येकवनवाटयम्बु तेजः स्वप्राशुकेषु च । भुक्तेषु मुक्त आख्यातः प्रमादे पापशोधनः || १४ || पश्चात्कार्ये च कामघ्नं शोधनं परमं मतम् । सच्चित्तैः पिहिते चापि संश्रिते वापि नाशने ॥ ९५ ॥ भुक्ते गुरुश्चाल्पतरे दायके लघुरिष्यते । दायकेन्धे च कामघ्नं परे स्वाच्छुद्धये गुरुः ।। ९६ ।। कालान्यथ वाऽतीते च कृते निर्मद इष्यते । तस्यैव परिभोगे च चतुःपादो विशुद्धये ॥९७॥ शय्यातरीयपिण्डस्य वादने धर्ममादिशेत् । तथा वर्षति पर्जन्ये आनीतेऽन्नेऽम्लमादिशेत् ॥९८॥ रूक्षपारिष्ठापने च स्निग्धत्यागे तथैव च क्रमाच्छोधनमाख्यातं पूर्वाहं धर्म एव च ॥ ९९ ॥ अन्नादिलिप्सपात्रस्य स्थापने शीतमिष्यते । अकाले च विडुत्सर्गे विपात्रे कृमिसंभवे ॥ १०० ॥ सविकृमित्वे वान्तौ च प्रत्येकं कार्य उत्तमः । उपधौ पतिते
For Private & Personal Use Only
॥२६३॥
www.jainelibrary.org