________________
आचार
दिनकरः
॥२६१॥
Jain Education Interne
धर्माच्छुद्धिर्दिनेदिने । नकुत्तारे गुरुः कार्यस्तस्माच्छुद्विरुदीरिता ॥ २० ॥ तथाचानन्तकायानां चतुस्त्रिग्रन्यक्षदे हिनाम् । संस्पर्श पितृकालस्तु शीतं मर्दलवादने ॥ २१ ॥ आगाढपरितापे तु प्राणाधारः प्रकीर्तितः । एषां च गाढसंतापे सजलं शोधनं विदुः ॥ २२॥ विघाते च तथैतेषां धर्मपुण्यमपि क्वचित् । असंख्यीन्द्रियध्वंसे पुण्यद्वयमुदाहृतम् ॥२३॥ असंख्यन्त्रीन्द्रियध्वंसे शुद्धयै पुण्यत्रयं विदुः असंख्यचतुरक्षाणां ध्वंसे पुण्यचतुष्टयम् ||२४|| असंख्यासंज्ञिनां ध्वंसे शोधनं पुण्यपञ्चकम् । षट्पदीबहुनाशे तु कर्तव्यं पुण्यपञ्चकम् ॥ २५ ॥ पञ्चेन्द्रियाणां संघ प्राणाधारे विशुद्धिकृत् । तेषामागाढसंतापे कामधनं पापनाशनम् ॥ २६॥ तेषां च गाढसंतापे निःपापः पापखण्डनः । विघातने पुनः पुण्यं बहूनां च विघातने ।। २७ ।। तेषां तत्संख्यया पुण्यकार णानि विनिर्दिशेत् । जीवघाते प्रमादेन प्रायश्चित्तं न कोपतः ॥ २८ ॥ अमार्जिताङ्गकण्डूयाकरणे निर्मदं वदेत् । भित्तिस्तम्भासनादौ च संस्पृष्टे मार्जनोज्झिते ॥ २९ ॥ युवतीवस्त्र संघट्टे कायनुस्यप्रमार्जने । एतेषु सर्वदोषेषु विरसं शोधनं विदुः ||३०|| आर्द्रामलकमाने च पृथिवीकायमर्दने । चलुमात्र सचित्ताम्बु पुरःपाश्चात्यकर्म ||३१|| द्विक्रोशमात्र मुडपनौभ्यां प्रतरणेऽम्बुनः । नाभिमात्राम्बुसंस्पर्शे बहग्निस्पर्शने तथा ॥२२॥ भक्तस्त्रीदेशवार्ताकरणे क्रोधमानयोः । मायायाश्च संविधाने प्रचुरे च प्रमादतः ||३३|| शचव्या (2) दानप्रमाणायां तथा सन्निधिभोजने । तथा च कालवेलायां जलपानेऽङ्घ्रिधावने ||३४|| एतेषु सर्वदोषेषु कामधनं धनं परम् । पूर्वार्धामथो पापशोधनं परिकीर्त्यते ॥ ३५ ॥ उपयोगस्याकरणे गोचरस्याप्रतिक्रमे । तयोरवि
For Private & Personal Use Only
॥२६१।
elibrary.org