________________
आशातनायां हीनायां मध्यमोत्तमयोरपि । विलम्बः परमः शीतं मात्तप उदाहृतम् ।। ४ ॥ सामान्याशातनायां तु परमाः पञ्च कीर्तिताः । काले चावश्यके स्वाध्यायप्रस्थापन उज्झिते ॥५॥ विरसोऽक्षपरित्यागे व्याख्याने धर्म ईरितः । अविधाने निषद्याया गुरोनिःपाप उच्यते ॥६॥ कायोत्सर्गवन्दनयोस्त्यागेप्येवं तपः स्मृतम् । अनागाढेषु योगेषु देशभङ्गे च धातुहृत् ॥७॥ सर्वभङ्गे प्रशमनं प्रायश्चित्तं प्रचक्षते । तथाचागाढयोगेषु देशभङ्गे गुरुः स्मृतः ॥८॥ सर्वभङ्गे सुन्दरं च पूतं सद्गुणनिन्दने । ज्ञानाचार इदं प्रोक्तं प्रायश्चित्तं मुनीश्वरैः ॥९॥ आशातनायां देवस्य गुरोः स्थाप्यगुरोपि । शान्तेश्च स्थापनाचार्यनाशे शीतमुदाहृतम् ॥१०॥ कालातिक्रम आदिष्टस्त(3)स्यैवाप्रतिलेखने । अवतारणकादीनां करणे ग्राह्यमिष्यते ॥ ११॥ शङ्कादिपश्चके कार्य देशादेव विलम्बकम् । तत्राचार्यस्य परमं पाठकस्य च धातुहृत् ॥१२॥ आचार्यस्य पाठकस्य मुक्तं शीतं क्रमाक्वचित् । इत्येवं दर्शनाचारे प्रायश्चित्तमुदाहृतम् ॥१३॥ व्रते प्राणातिपाताख्ये पृथ्व्यप्तेजो मरुत्वताम् । प्रत्येकशाखिनां चैव संस्पर्श विरसं विदुः ॥१४॥ अगाढतापे पूर्वाध गाढतापे सुभोजनम् । वि
घातने पुनः शीतं वदन्ति श्रुतवेदिनः ॥१५॥ सूक्ष्माम्वुतेजसोः स्पर्शे पूर्वार्ध शोधनं परम् । तयोबादरयोः है स्पर्शे कामनं विदुरादिमाः ॥१६॥ स्पर्शे जलचराणां तु प्राणाधारं विनिर्दिशेत् । जलाईवस्त्रसंघद्दे कथयन्ति |
सुभोजनम् ॥१७॥ कम्बलेनाप्तेजसोश्च स्पर्शने विरसं मतम् । ज्वलने झडितपदं स्पृष्टे सजलमिष्यते ॥१८॥ हरिताङ्करसंमर्दे क्रोशेक्रोशे गुरुर्गुरुः । हरितानां च संस्पर्शे भूयसा बीजमर्दने ।। १९ ।। सुन्दरं किसलोन्मर्दे
___Jain EducatST.
For Private & Personal Use Only
Mahelibrary.org