________________
भाचारदिनकरः
| २६० ॥
Jain Education
अनन्तकाये भुक्ते तु निःपापं पापनाशनम् । त्यक्तप्रत्येक भोगेषु शीतमाहुर्मनीषिणः ॥ २२ ॥ कर्मादानेषु सर्वेषु कृतेषु कथितं सुखम् । अनर्थदण्डेनाहारः प्रोक्ते सामायिके कृते ||२३|| देशावकाशिके भग्ने पौषधे भग्न एव च । अतिथीनामनचयां क्रमात्तप उदीर्यते ||२४|| अनाहारश्च कामघ्नं कामधनं मुक्त एव च । प्रायश्चितमिदं प्रोक्तं व्रतेषु द्वादशस्वपि ||२५|| अयमेव श्राविकाणां प्रायश्चितविधिः स्मृतः । विशेषः कोपि तासां तु पुनरेव प्रकीर्त्यते ||२६|| सामायिकव्रतस्थायाः स्थितायाः पौषधेऽथवा । नृसंघट्टे मन्त्रजापः पञ्चविंशतिसंख्यकः ||२७|| तत्रापि वालस्वीकारे कार्यमोदयमञ्जसा । पञ्चाणुव्रतभङ्गे तु तासां शोधनमन्तिमम् ॥ २८ ॥ प्रत्याख्यानवियुक्तौ तु चतुः पादोप्यकारणात् । प्रत्याख्याने च चरमे कृते प्राहुः सुभोजनम् ॥ २९ ॥ जीवोदकस्य संशोषे षट्पदीनां च घातने । मठचैत्यनिवासे च तासां शोधनमन्तिमम् ॥ ३०॥ श्राविका यस्य तपसः प्रत्याख्यानं भनक्ति च । प्रत्याख्यानं तदेव स्यात्करणीयं तया पुनः ||३१|| आलोचनाव्रतं चैव क्षामणं जिनपूजनम् । स्वाध्यायोऽनशनं चेति षट्कर्माण्यन्तकर्मणि ॥ ३२ ॥” इति प्रायश्चित्ताधिकारे श्रावकजीतकल्पः संपूर्णः ॥
अथ लघुजीतकल्पविधिना यतिप्रायश्चित्तम् ॥ अथान्यविधिना साधुश्राद्वयोः पापनाशनः । प्रायश्चित्तविधिः शुद्धः शास्त्रदृष्ट्या निगद्यते ॥१॥ पूर्व च पञ्चाचारेषु लिङ्गितेषु प्रमादतः । प्रायश्चित्तं यतीनां च तत्तभेदैरुदीर्यते ॥२॥ पूर्व सूत्राशातनायां कामघ्नं शुद्धये विदुः । तस्यामर्थगतायां च चतुःपादः प्रकीर्तितः ॥ ३ ॥
ional
For Private & Personal Use Only
॥२६०॥
www.jainelibrary.org