________________
Jain Educated
पार्श्वस्थादिमुनीनां च गुरुबुद्धधानुदानतः ॥ ५ ॥ पञ्चविंशतिसंख्येन मन्त्रजापेन शुद्धयति । पट्टिकापुस्तकदीनां ज्ञानोपकरणस्य च ॥ ६ ॥ पातनात्पादसंघट्टात्पञ्चमन्त्रजपाच्छुभम् । प्रत्याख्याने मन्त्रयुते ग्रन्थिमुष्टियुते तथा ॥ ७ ॥ भग्ने त्रिशतसंख्येन मन्त्रजापेन शुद्धयति । एतेषां ज्ञातशङ्केषु त्रिगुणो जाप इष्यते ॥८॥ अदाने स्यक्तविकृतेः प्रायश्रित्तं च पूर्ववत् । केच्छिकादिके प्राहुः पञ्चरूपेऽतिचारके ॥ ९ ॥ प्रत्येकमुत्तमं तत्र गाढागाढे विशेषतः । द्वीन्द्रियाणां त्रीन्द्रियाणां चतुरक्षभृतामपि ॥ १० ॥ संघट्टे चाल्पसंतापे सुभोजनमुदाहृतम् । गाढसंतापने शीतं मारणे चोत्तमं विदुः ॥ ११ ॥ पञ्चेन्द्रियाणां संघट्टे पादमल्पे च तापने । शीतसंतापने गाढे निःपाः परिकीर्तितः ॥ १२ ॥ मारणे पुण्यमाख्यातमेष आद्यवते विधिः । स्थूले चैव मृषावादे हीने मध्ये तथाधिके ॥१३॥ यतिस्वभावः सजलं निःपापश्च क्रमात्स्मृतः । एवं चौर्यव्रते ज्ञेयं प्रायश्चित्तमसत्यवत् ॥ १४॥ प्रायश्चित्तमथाख्येयं श्राद्धानां मैथुनव्रते । गृहीते नियमे स्वस्य कलत्रस्यापि संगमात् ॥ १५ ॥ उपवासव्रतं प्राहुः प्रायश्चित्तं विचक्षणाः । वेश्यायाः संगमादेव शुद्धिर्भद्र उदाहृता ॥ १६ ॥ हीनजातिपरस्त्रीणामज्ञानातवे (?) थवा । आदेयं परमं प्राहुः प्रायश्चित्तं मुनीश्वराः || १७|| विशुद्धकुलवध्वाश्च भोगे मूलं यथोदितम् । ग्राह्यं च नरसंभोगे मुक्तं मैथुनचिन्तने ॥ १८॥ सुन्दरं निविडे रागे प्रायश्चित्तमुदीरितम् । स्थूले परिग्रहे हीने मध्यमे परमे तथा ॥ १९ ॥ यतिस्वभावं कामघ्नं चतुःपादं क्रमाद्विदुः । दिग्वतस्यातिक्रमे तु शर्वरीभोजने तथा ||२०|| पातकस्य प्रशमनं विदुः प्रशमनं परम् । मांसाशने मद्यपाने ग्राह्यं पातकघातनम् ॥२१॥
national
For Private & Personal Use Only
www.jainelibrary.org