________________
आचार- 1 दधातु ॥ १॥” नमो धृतये तिगिच्छिद्रहवासिन्यै धृते इह० शेष० ॥३॥ कीर्ति प्रति-ॐ धीं शः कीर्तये दिनकरः नमः इति मूल ॥ “शुक्लाङ्गयष्टिरुडुनायकवर्णवस्त्रा हंसासना धृतकमण्डलुकाक्षसूत्रा। श्वेताब्जचामरविला
सिकरातिकीर्तिः कीर्ति ददातु वरपौष्टिककर्मणात्र ॥१॥"ॐ नमः कीर्तये केशरिद्रहवासिन्यै इह० शेषं० ॥२४७॥
॥४॥ बुद्धि प्रति-ॐ ऐं धीं वुद्धये नमः इति मूल० ॥ "स्फारस्फुरत्स्फटिकनिर्मलदेहवस्त्रा शेषाहिवाहनगतिः पटुदीर्घशोभा। वीणोरुपुस्तकवराभयभासमानहस्ता सुबुद्धिमधिकां प्रददातु बुद्धिः ॥१॥"ॐ नमो बुद्धये महापुण्डरीकद्रहवासिन्यै बुद्धे इह शेषं० ॥५॥ लक्ष्मी प्रति-ॐ श्रीं ह्रीं क्लीं महालक्ष्म्यै नमः इति मूल०॥"ऐरावणासनगतिः कनकाभवस्त्रदेहा च भूषणकदम्बकशोभमाना। मातङ्गपद्मयुगलप्रमृतातिकान्तिर्वेदप्रमाणककरा जयतीह लक्ष्मीः ॥१॥" ॐ नमोलक्ष्म्यै पुण्डरीकद्रहवासिन्यै लक्ष्मि इह० शेष ॥६॥ ततः ॐ श्रीहीधृतिकीर्तिबुद्धिलक्ष्म्यो वर्षधरदेव्यः सायुधाः सवाहनाः सपरिच्छदा इह पौष्टिके आगच्छन्तु २ इदं आचमनीयं गृह्णन्तु २ सन्निहिता भवन्तु २ स्वाहा जलं गृह्णन्तु २ गन्धं अक्षतान् फलानि मुद्रां पुष्पं धूपं दीपं नैवेद्यं सर्वोपचारान् २ शान्ति कुर्वन्तु २ तुष्टिं पुष्टिं ऋद्धिं वृद्धिं सर्वसमीहितानि यच्छन्तु स्वाहा । अनेन संकुलपूजा । एवं पीठपञ्चकस्थापनां संपूज्य क्रमेण प्रत्येकं मूलमंत्रोमं कुर्यात् । अत्र पौष्टिके सर्वोपि होमोऽष्टकोणकुण्डे आम्रसमिद्भिः इक्षुदण्डखजूरद्राक्षाघृतपयोभिः। ततः पूर्वप्रक्षिप्तासु पुष्पाञ्जलिषु जिन| बिम्बे बृहत्स्नात्रविधिना परिपूर्ण स्नात्रं कुर्यात् । तच्च स्नात्रोदकं तीर्थोदकसंमिश्रं शान्तिककलशवत् संस्था
AIRRORLARLASHISHICHAAG
॥२४७
Jain Education inte
For Private & Personal Use Only
pelibrary.org