SearchBrowseAboutContactDonate
Page Preview
Page 518
Loading...
Download File
Download File
Page Text
________________ SSSSSSSS पिते प्रगुणीकृते पौष्टिककलशे निक्षिपेत् । तत्रसुवर्णरूप्यमुद्राद्वयं नालिकेरं निक्षिपेत् । कलशं सम्यक्संपूजयेत्पूर्ववत् । छदिसंलग्नं कलशतलस्पर्शिसदशाव्यङ्गवस्त्रं चोपरि लम्बयेत् । पीठपञ्चके च क्रमेण चतुःषष्टिकरषोडशकरदशकरषट्करैर्वस्त्रैराच्छादनं । गुरुस्नात्रकारगृहाध्यक्षकलशाः पूर्वमेव सकङ्कणा विधेयाः स्वर्णकाणमुद्रिके च गुरुवे देये सदशाव्यङ्गश्वेतकौशेयं च । ततः स्नात्रकारद्वयं पूर्ववदखण्डितधारया शुद्धोदककलशे निक्षिपति ॥ गुरुश्च कुशेन पतन्तीं धारां पौष्टिकदण्डकं पठन् निक्षिपति । पौष्टिकदण्डको यथा-"येनैतद्भवनं निजोदयपदे सर्वाः कला निर्मलं शिल्पं (शल्यं) पालनपाठनीतिसुपथे बुद्धया समारोपितम् । श्रेष्ठाद्यः पुरुषोत्तमस्त्रिभुवनाधीशो नराधीशतां किंचित्कारणमाकलय्य कलयनहन् शुभायादिमः॥१॥" इह हि तृतीयारावसाने षट्पूर्वलक्षवर्यास श्रीयुगादिदेवे परमभट्टारके परमदैवते परमेश्वरे परमतेजोमये परमज्ञानमये परमाधिपत्ये समस्तलोकोपकाराय विपुलनीतिविनीतिख्यापनाय प्राज्यं राज्यं प्रवर्तयितुकामे सम्यग्दृष्टयश्चतुःषष्टिसुरासुरेन्द्राश्चलितासना निर्दम्भसंरम्भभाजोऽवधिज्ञानेन जिनराज्याभिषेकसमयं विज्ञाय प्रमोदमेदुरमानसाः निजनिजासनेभ्य उत्थाय ससम्भ्रमं सामानिकाङ्गरक्षकत्रायस्त्रिंशल्लोकपालानीकप्रकीर्णकाभियोगिकलोकान्तिकयुजः साप्सरोगणाः सकटकाः स्वस्वविमानकल्पान् विहायैकत्र संघहिता इक्ष्वाकुमृमिमागच्छन्ति । तत्र जगतति प्रणम्य सर्वोपचारैः संपूज्याभियोगिकानादिश्य संख्यानिगैोजनमुखैर्मणिकलशैः सकलतीर्थजलान्यानयन्ति । ततः प्रथमाईतं पुरुषप्रमाणे मणिमये सिंहासने कटिप्रमाणपादपीठपुरस्कृते दि A Jain Education a l For Private & Personal Use Only www.jainelibrary.org
SR No.600003
Book TitleAchar Dinkar
Original Sutra AuthorVardhmansuri
Author
PublisherJaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
Publication Year1981
Total Pages566
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy