________________
आचार
दिनकरः
॥ १४ ॥
Jain Education In
पञ्चगव्यजिनस्नात्रोदकसर्वोषधिजलतीर्थजलैः स्नपितस्य वस्त्राभरणादि परिधापयेत् । तथा च नारीणां सूतकस्नानं पूर्णेष्वपि सूतकदिवसेषु नार्द्रनक्षत्रेषु नच सिंहगजयोनिनक्षत्रेषु कुर्यात् । आर्द्रनक्षत्राणि दश यथा"कृत्तिका भरणी मूलमार्द्रा पुष्यपुनर्वसू । मघा चित्रा विशाखा च श्रवणो दशमस्तथा ॥ १ ॥ आर्द्रधिष्ण्यानि चैतानि स्त्रीणां स्नानं न कारयेत् । यदि स्नानं प्रकुर्वीत पुनः सूतिर्न विद्यते ॥ २ ॥ सिंहयोनिर्धनिष्ठा च पूर्वाभाद्रपदं तथा । भरणी रेवती चैव गजयोनिर्विचार्यते ||३||” कदाचित्पूर्णेषु स्तकदिवसेष्वेतानि नक्षत्रायायान्ति तदा दिनकैकान्तरेण शुचिकर्म विधेयम् । “पूजावस्तु पञ्चगत्र्यं निजगोत्रोद्भवो जनः । तीर्थोदकानिसंस्कारे शुचिकर्मणि निर्दिशेत् ॥ १ ॥ इत्याचार्य श्रीवर्द्धमानसूरिकृते आचारदिनकरे गृहिधर्मपूर्वायने शुचिसंस्कारकीर्त्तनो नाम सप्तम उदयः ॥ ७ ॥
તા. –૧ સુધારક (?) વિચારાને નામે સૂતક ન માનનારા ધ્યાનપૂર્વક વાંચ્-વિચાર–ગૃહસ્થના બતાવેલ. આચાર ન માનનારનુ... જીવન અપવિત્ર રહે છે. દુ:ખી થાય છે. શુચિક વિધિ આપીને ગ્રંથકાર સ્પષ્ટ સુચન કર્યું છે.
For & Use
विभागः १ नामकरण.
॥१४॥
jainelibrary.org